सामग्री पर जाएँ

पृष्ठम्:शङ्करदिग्विजयः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः१३]
129
ब्रह्मविद्याविचार:

स्फारद्वारपयाणद्विरदमदसमुल्लोलकल्लोलभृङ्गी-
सङ्गीतोल्लासभङ्गीमुखरितहरितः संपदोऽकिंपचानः ।
निष्ठीब्यन्तेऽतिदुरादधिगतभगवत्पादसिद्धान्तकाष्ठा-
निष्ठासम्पद्विज़म्भनिरवधिसुखदस्वात्मलाभकलोभैः ॥ ८८

समिन्धानो मन्थाचलमथितसिन्धुदरभव-
सुधाफेनामेनामृतरुचि निभेनाऽऽत्मयशसा ।
निरुधानो दृष्टया परमहह पन्थानमसतां
पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिराम् ॥८९

इति श्रीमाधवीये-तद्धस्तधाच्यादिसंश्रयः ।
संक्षेपशङ्करजये सर्गोऽयं द्वादशोऽभवत् ॥ १२ ॥

आदितः श्लोकाः 1312

अथ त्रयोदशः सर्गः ॥ १३ ॥

ब्रह्मविद्याविचारः ॥

ततः कदाचित् पणिपत्य भक्त्या सुरेश्वरार्यो गुरुवात्मदेशम् ।
शारीरकेऽत्यन्तगभीरभावे वृत्ति स्फुटं कर्तुमना जगाद ॥१

मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।
तदिदं पुरुषस्य जीवितं यदयं जोवति भक्तिमान् गुरौ ॥२

इतींरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः ।
मत्कस्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्तिकनामधेयम् ॥ ३

द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः ।
तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निवन्धनाय ॥ ४

अस्त्वेव मित्यार्यपदाभ्यनुज्ञामादाय मूर्धा स विनिर्जगाम ।
अथाम्बुजा ईयिताः सतीर्थास्तं चित्सुखाद्या रहसीत्थमूचुः ॥ ५

योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ।
प्रत्येकमे गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥६