२२ कादम्बरी । भयपलायितामिव कालिन्दीम,अतिवहलपिण्डालक्तकरसरागपल्लवितपादपङ्कजामचिरमृदित- महिषासुररुधिररक्तचरणामिव काल्यायनीम ,आलोहिताङ्गुलिमभापाटलितनखमयूखाम्,अति- कठिनमणिकुट्टिमस्पर्शमसहमानाम् ,क्षितितले पल्लवभङ्गानिव निधाय संचरन्तीम्, आपिजरे- णोत्सर्पिणा नूपुरमणीनां प्रभाजालेन रञ्जितशरीरतया पावकेनेव भगवता हेप एव पक्षपातिना प्रजापति मप्रमाणीकुर्वता जातिसंशोधनार्थमाालेङ्गितदेहाम्,अनङ्गवारणशिरोनक्षत्रमालायमा- नेन रोमराजिलतालबालकेन रसनादाम्ना परिगतजयनाम, अतिस्थूलमुक्ताफलपटितेन शुचि- ना हारेण गङ्गास्रोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम, शरद मिव विकसित पुण्डरीकलोच- वह्निस्तेन दह्यमानो ज्वाल्यमानो यो मदनो जराभीरुस्तरय धूमो दहनकेतुस्तेन मालिनीकृतां मालिन्यं प्राप्ताम् । पुनः कामिव । कालिन्दीमिति । कालिन्दी यमुना तामिव । यमुनां विशेषयन्नाद-उन्मदेति । उन्मदस्य प्रबलगर्वस्य हलिनो वलभद्रस्य यद्धलं लागलं तेन यदाकर्पणमाकृष्टिस्तस्माद्यद्भयं साध्वसं तस्मात्पलायितां न. ट्राम् । अतीति । अतिवलोऽतिप्रचुरो यः पिण्डालक्तकः पिण्डीकृतो यावकस्तस्य रसो द्रवस्तरय रागो रक्ति- मा तेन पवितं संजातकिसलयं पादपङ्कजं यस्याः सा तथा ताम् । कामिव । अचिरेति । अचिरं तत्कालं भृ. दितो मर्दितो यो महिषासुरो दैत्यस्तस्य यद्रुधिरमानेयं तेनारक्तो लोहितो चरणों पादौ यस्या एवं विधां कात्या. यनी दुर्गामिय। आलोहितेति । आलो हिता आरक्ता या अङ्गुलयः करशाखास्तासां प्रभा दीप्तिस्तया पाटलिताः श्वेतरक्तीकृता नखमयूखाः पुनर्भवदीप्तयो यस्याः सा तथा ताम् । यद्यपि नखानां स्वत एवारुण्यात्पाटलत्व- मस्त्येव, तथापि मिथोमिश्रीभाव एव पाटलत्वं बोध्यम् । चरणयोः पल्लयवर्णनप्रयोजनमाह–अतीति । अतिकटिनमति कर्कशं यन्मणिकुटिमं मणिबद्धभूस्तस्य स्पर्श संश्लेपमसहमानामक्षममाणाम् । क्षितीति । क्षितितले धरणीतले पल्लवभङ्गानिव किसलयखण्डानिव निधाय स्थापयित्वा संचरन्तीं चलनं कुर्वतीमित्युत्प्रे. क्षा । आलिङ्गित इति । आलिङ्गित आश्लिष्टो देहः शरीरं यस्याः सा तथा ताम् । केन । भगवता माहा- त्म्यवता पावकेन वहिना । अथ पावकं विशेषयन्नाह-रूपे सौन्दर्य एव पक्षपातिनानुरक्तचित्तेन प्रजापति ब्रह्माणमप्रमाणीकुर्वता । तदङ्गीकारादिति भावः । कया । आपिअरेति । आपिञ्जरेण पीतरक्तेन । 'पीत- रक्तस्तु पिञ्जरः' इत्यभिधानचिन्तामणिः । उत्सर्पिणा सर्वतः प्रसारिणा नूपुरस्य हंसक स्य मणयो रत्नानि तेषां प्रभा विपस्तासां जालेन समूहेन रञ्जितं यच्छरीरं तस्य भावस्तत्ता तया हेतुभूतया । एतेन नूपुरमणि- r: परस्परमुपमानोपमेयभावः सूचित्तः । तदालिङ्गन प्रयोजनमाह-जातीति। विधात्रा चाण्डाल- जात्याक्रान्ता सा निर्मिता । सा च सर्वथास्पृश्यैवाशुचित्वात् । अशुचिर्वह्निना शुचिः स्यादिति तदालिङ्गाने प्रयोजनमिति भावः । रसनेति । रसना कटिमेखला सैव दाम बन्धन र नुस्तेन परिगतं समन्ताव्याप्तं जघनं कट्याः पुरोभागो यस्याः सा ताम् । 'कट्याः क्लीवे तु जघनं पुरः' इत्यमरः । मेखलादाम विशेषयन्नाह-- अनङ्गेति । अनङ्ग एव वारणो गजस्तस्य शिरसि शोभार्थ नक्षत्रमालावदाचरमाणेन । रोमेति । रोमराजिरे- रोनि FTET आती अनिमशाळाति यानि मक्ताफलानि तेरितो प्रभावह्नयोः
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२२
दिखावट