पार्श्वनाथस्तवः (जिनप्रभसूरिविरचितः)
पार्श्वनाथस्तवः जिनप्रभसूरिः १९२६ |
श्रीजिनप्रभसूरिविरचितः श्रीपार्श्वनाथस्तवः । का मे वामेयशक्तिर्भवतु तव गुणस्तोमलेशप्रशस्तौ न स्याद्यस्यामधीशः सुरपतिसचिवस्यापि वाणीविलासः । माने वा वार्धिवारां कलयति क इव प्रौढिमारूढधारां भक्तिव्यक्तिप्रयुक्तस्तदपि किमपि ते संस्तवं प्रस्तवीमि ॥ १ ॥ संसाराम्भोधिवेला निबिडजडमतिध्वान्तविध्वंसहंसः श्यामाश्यामाङ्गधामा (१) शठकमठतपोधर्मनिर्माथपाथः । स्फ़ारस्फूर्जत्फणीन्द्रः प्रगुणफणमणिज्योतिरुद्दयोतिताशा- चक्रश्चक्रिध्वज त्वं जय जिन विजितद्रव्यभावारिवार ॥२॥ १. पार्श्वनाथस्तवादिस्तोत्रषदं जिनप्रभसूरिप्रणीतमस्मभ्यं सूरतनगरवासिना केवल- शंसात्मजेनं भगवानदासश्रेछिना प्रहितम्. पुस्तकान्तरं चास्य नोपलब्धमिति. काव्यमाला। कम्रानम्राङ्गिचेतःशिखिकुलविलसत्ताण्डबाडम्बरश्री- हेतुः प्रेङ्खन्नखालीरुचिररुचितडिदामनेत्राभिरामः । प्रीतिं फुल्लत्फणाभाग्मणिणिसुमनश्चापचित्रीकृतद्यौ- र्देयास्त्वं देशनावाक्स्तनितसुखकरो मेघवन्मेऽघहन्तः ॥ ३ ॥ भिन्दल्लोकप्रवाहप्रबलतरसरित्पूरमुच्चैर्वहन्तं जन्तूनां चित्तभूमौ स जयति जगति स्वदचोवारिकान्तः । मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भया? भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः ॥ ४ ॥ लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं पायंपायं भरेण प्रणतभवभूतां नेत्रपुष्पंघयाल्यः । नूनं हर्षप्रकर्षोद्वतनयनपयापूरदम्भेन दूरं मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्भिरन्ति ॥ ५ ॥ निःस्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ य- त्कक्षाकौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम् । श्रेयःश्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्या- दर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम् ॥ ६ ॥ विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो गात्रश्रीमैत्र्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः । सद्भोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप- निष्कम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन खा ॥ ७ ॥ देव्या वाचोऽपि वाचामविषय दिविषन्मन्दिरद्वारसेवा- हेवाकीसर्वनाकीश्वरमुकुटतटीधृष्टपादाम्बुजस्य । नेतश्चैतन्यशून्यः सकलकलयितुर्मुक्तिमात्रस्य दाता मुक्तिं भुक्तिं च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः ॥ ८॥ चन्द्रः प्रत्युदकाशयं प्रतिफलत्येको न चार्थक्रिया- कारीत्येष न चास्तवांस्तव पुनर्वृत्तं जयत्यद्भुतम् । २. प्रतिजलाशयम्. १. सरस्वत्याः श्रीपार्श्वनाथस्तवः । एकस्त्वं प्रतिमानसं वससि यद्भव्यात्मनामेकदा सर्वेषामथ च प्रयच्छसि फलं तेषां मनोवाञ्छितम् ॥ ९ ॥ यौष्माकीणगुणस्तुतिं विकिरती शुण्डामिवान्तर्गत- प्रीतिं स्फीतिमतीमतीव सुरभि दानाम्बुना बिभ्रती । त्रैलोक्यैकसुरद्रुम द्रुमवनानीवोन्मदा वासिता युष्मद्भक्तिरलं भनक्ति भविनामेनांसि हृद्वासिता ॥ १०॥ आधारे स्थिरतोज्झिते किल भवत्याधेयमप्यस्थिरं सोऽयं ज्ञानपथस्तथापि किमपि खार्थेकनिष्ठो ब्रुवे । अश्रान्तं मम चञ्चलेऽपि मनसि खामिन्नधान स्थिति त्रैलोक्याधिप शक्तिभाजि यदि वा किं नोपपन्नं त्वयि ॥ ११ ॥ विश्वेश प्रसभं त्वदीययशसा व्यालुप्यमाने प्रभा- सर्वस्वे जगदाक्रमैकपटुना नूनं द्विजानां पतिः । शस्त्रीं लान्छनकैतवात्मतिनिशं कुक्षिप्रदेशे क्षिप- न्कोपाटोपवशादसावुदयते विश्रद्वपुलॊहितम् ॥ १२ ॥ चक्रेण त्वमपाहरः शशधरस्याखण्डमूर्तेः श्रियं व्याकोशस्य कुशेशयस्य सुषमासर्वखमप्यमहीः । यत्तुल्यव्यसनादपि स्म जहितो नैतौ विरोधं मिथ- तेनाकारि समानशीलविपदां सख्यप्रवादो मृषा ॥ १३ ॥ पुष्टाङ्गं व्यवहारनिश्चयनयोत्तुङ्गशृङ्ग शुभं दानाद्यङ्गिचतुष्टयं च विकसज्ज्ञानक्रियालोचनम् । नित्यच्छेकविवेकपुच्छलतिकं स्याद्वादपर्युलस- त्पीनोचैःककुदं कुतीर्थतृणमुक्सूते वृषं गौस्तव ॥ १४ ॥ आकण्ठं कमठाम्बुदोज्झितपयःपूरे निममाङ्गक- स्योत्फुल्लं मुखपङ्कजं तव पपौ या कौतुकोत्कर्षतः । नागस्त्रैणविलोचनालिपटली संख्याय घुर्येव तां (1) धन्यानां गणनाक्षणे न खलु सा रेखान्यतः सर्पति ॥ १५ ॥ १. करिणी. १० का.स.गु. ११० काव्यमाला। वन्दारोः प्रियकोपितप्रणयिनीदृक्कोणशोणत्विषः सान्द्रस्निग्धसमुच्छलत्क्रमनखश्रेणीमयूखास्तव । त्वद्वृत्तस्तुतितिकाभिमुखितां पाणौ चिकीर्षोः शिव- श्रीरामां नवपद्मरागमहितं बध्नन्तु मौलौ मम ॥ १६ ॥ एवं नृदेवमहितः सहितः प्रभाव- भूत्या प्रभूततमया विनुतो मयायम् । पार्श्वप्रभुर्विमलचिन्मयचित्तसौध- मुत्तंसयत्त्ववृजिनप्रभसूरिवर्यः ॥ १७ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः ।