सामग्री पर जाएँ

भक्तामरस्तोत्रम् (मानतुङ्गाचार्यविरचितम्)

विकिस्रोतः तः
भक्तामरस्तोत्रम्
मानतुङ्गाचार्यः
१९२६


काव्यमाला। सप्तमगुच्छकः। श्रीमानतुजाचार्यविरचितं भक्तामरस्तोत्रम् । भक्तामरप्रणतमौलिमणिप्रभाणा- मुद्द्योतकं दलितपापतमोवितानम् । सम्यक्प्रणम्य जिनपादयुगं युगादा- वालम्बनं भवजले पततां जनानाम् ॥ १ ॥ १. भक्तामरस्तोत्रप्रणेता मानतुङ्गाचार्यो मालवदेशान्तर्गतोज्जयिनीनगर्वां वृद्धभोज- महीपतिसमये बाणमयूरयोः समकालिक आसीदिति भकामरस्तोत्रटीकानामुपोद्धाते समुपलभ्यते. तेन ख्रिस्ताब्दीयसप्तमशतकपूर्वभागो बाणभट्टसमय एष मानतुङ्गसमय इत्य- वसीयते. मेरुतुङ्गप्रणीतबन्धचिन्तामणौ तु अथ यदा मालमण्डले श्रीभोजराजो राज्यं चकार तदात्र गुर्जरधरित्र्यां चौलुक्यचक्रवर्ती श्रीभीमः पृथिवीं शशास' इत्यस्ति. तदन- न्तरं भोजसमायां बाणमयूराभ्यां सह मानतुङ्गाचार्यस्य विवादादि भक्तामरस्तोत्रनिर्माणं च वर्णितमस्ति. भीमभोजराजौ तु ख्रिस्ताब्दीयैकादशशतक आस्तामिति गुजराथदेशीयेति- हासे स्फुटमेव. स एव मानतुङ्गस्य काल इलपि वक्तुं शक्यते, एवं किंवदन्तीनां परस्पर- विसंवादे संदिग्ध एव मानतुङ्गसमयः. एतादृश्यो जनश्रुतयस्तु समयादिनिर्णये नातीवोप- युक्ता इत्यसकृदुक्तमेव. स्तोत्रं चैतदिगम्बरै: श्वेताम्बरैश्च श्रद्धया पठ्यते. किं तु दिगम्बरा अष्टचत्वारिंशत्पद्यघटितं श्वेताम्बराश्चतुश्चत्वारिंशत्पद्यात्मकं च पठन्ति. तत्रैकत्रिंशत्पद्यान- न्तरं 'गम्भीरताररव--' इत्यादि पद्यचतुष्टयं दिगम्बरैरधिकमुद्धोष्यते. अस्माकं तु चतु- श्चत्वारिंशत्पद्यात्मकमेव स्तोत्रमाचार्येण प्रणीतमित्येव भाति यतो भक्तामरस्तोत्रानुक- रणप्रवृत्तः सिद्धसेनदिवाकरोऽपि कल्याणमन्दिरस्तोत्रं चतुश्चवारिंशच्छ्लोकैरेव निर्मित- वान्. अथ च भक्तामरसमस्यापूर्तिस्तोत्रमपि चतुश्चवारिंशत्पद्यात्मकमेव दृश्यते. गम्भीरे- त्यादि चत्वारि पद्यानि तु केनचन पण्डितंमन्येन निर्माय मणिमालायां काचशकला- नीव मानतुङ्गकवितायां प्रवेशितानीत्यपि तद्विलोकनमात्रेणैव कविवमर्मविद्भिर्विद्वद्भि- र्बोद्धुं शक्यते. टीकाश्चास्य स्तवस्य श्वेताम्बरैदिगम्बरैश्च निर्मिता भूयस्थो वर्तन्ते. तत्र दिगम्बरा मानतुङ्गाचार्यं दिगम्बरं श्वेताम्बराश्च श्वेताम्बरं वदन्ति. उपोद्घातस्तु टीकासु प्रायः समान एव वर्तते. कैश्चन टीकाकारैः प्रतिश्लोकं मन्त्रस्तत्प्रभावकथा च लिखि- तास्ति. तेच मन्त्रास्तसत्पद्येभ्यः कथं निर्गता इति त एव जानन्ति. मन्त्रशास्त्ररीत्या तु १ का० स०गु० काव्यमाला। यः संस्तुतः सकलबाध्ययतत्त्वबोधा- दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ (युग्मम् ) बुद्ध्या विनापि विबुधार्चितपादपीठ- स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब- मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥ तेभ्यः श्लोकेभ्यस्तेषां मन्त्राणामुद्धारो दुष्कर एव. अस्माभिस्तु टीकाचतुष्कमुपल- ब्धम्-तत्र (१) श्वेताम्बरेण गुणचन्द्रसूरिशिष्यगुणाकरेण प्रणीता टीका समीचीना. अस्यां चतुश्चलारिंशत्पद्यानि व्याख्यातानि. प्रायः पद्यानन्तरं मन्त्रस्तत्प्रभावकथा च वर्णि- तास्ति. टीकानिर्माणसमयस्तु समाप्ती 'वर्षे षड्विंशाधिकचतुर्दशशतीमिते (१४२६) च बर्षौ । मासि नभस्य रचिता सरस्वतीपत्तने विवृतिः ॥' इत्यमुक्तः नागार्जुनप्र- णीतयोगरत्नावल्याष्टीकाकारो गुणाकरस्वमाद्भिन्नः यतस्तथीकान्ते श्रीमनृपविक- मतो द्वादशनवपड्भिरक्तेि (१२९६) वर्षे । रचिता' गुणाकरेण श्वेताम्बरभिक्षुणा विवृतिः ॥' इति टीकानिर्माणकालो वर्तते. (२) तपागच्छीयहीरविजयसूरिशिष्यक- नककुशलप्रणीता टीका संक्षिप्ता उपोद्घातप्रभावकथाभी रहिताच. अत्रापि चतुश्च. लारिंशत्पद्यान्येव व्याख्यातानि. समाप्तौ च 'श्रीमत्तपगणगगनाङ्गणदिनमणिहीरविजय- सूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन ॥ नबनशररसेन्दु ( १६५२)- मिते वर्षे सुविराटनाम्नि वरनगरे । बालजनविबोधार्थ विजयदशम्यां हि सुसमाप्ता॥' एतदार्यायुग्मं वर्तते. (३) इयं टीका कर्तृनामरहिता सामान्या उपोद्धातमात्रसमेता वर्तते. एतत्प्रणेतापि कश्चन श्वेताम्बर एव प्रतीयते, यतोऽनेन मानतुझाचार्यों बृहद- च्छाधीशः श्वेताम्बरश्चासीदित्युक्तमस्ति. किलयमष्टचत्वारिंशच्छोकान्व्याख्यातवानि- त्यस्य श्वेताम्बरले मनाक्संदेहः (४) इयं टीका १६६७ संवत्सरे दिगम्बरभद्यारकरन- चन्द्रेण प्रणीता. अत्रापि ताश एबोपोद्धातोऽनुष्टुप्पाघटितस्तादृश्य एवं प्रभावक-थाश्च वर्तन्ते. मानतुझाचार्यों दिगम्बर आसीदित्यप्मनास्ति. किंतु टीकाकारः सुत- रामप्रौढः एतद्दीकाचतुष्टयमसन्चं सूरतनगरवासिनासन्मित्रेण केवलदासात्मजभगवा- नदासश्रेष्ठिना प्रहितम्. द्वित्राणि मूलपुस्तकानि वत्माभिर्जयपुरेऽथिगतानि. तदाधा- रेणास्मामिरेतत्स्तोत्रमुद्रणमारब्धमिति शुभम्. १. श्रीनामेयमिति गुणाकरः, वृषभमिति रत्नकुशलः, श्रीआदिनाथमिति कर्तृ- नामरहितटीका. वक्तुं गुणान्गुणसमुद्र शशाङ्ककान्तान्कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुध्द्या। कल्पान्तकालपबनोद्धतनक्रचक्रं

  को वा तरीतुमलमम्बुनिधिं भुजाम्याम्।। ४।। काव्यमाला।

तुल्या भवन्ति भवतो ननु तेन किंवा भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधे रसितुं क इच्छेत् ॥ ११ ॥ यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत । तावन्त एव खल्ल तेऽप्यणवः पृथिव्यां यते समानमपरं नहि रूपमस्ति ॥ १२ ॥ वकं क ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्ब कलङ्कमलिनं क निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ संपूर्णमण्डलशशाङ्ककलाकलाप- शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं कस्तानिवारयति संचरतो यथेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि- नतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दरादिशिखरं चलितं कदाचित् ॥ १५ ॥ निर्धमवर्तिरपबर्जिततैलपूरः कृत्वं जगत्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥ १६ ॥ १. 'मन्दरो मेकः । युगान्ते सर्वपर्वतानां शोभो भवति न तु मेरोः' इति टीकाकृतः, भक्तामरस्तोत्रम् । नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनीन्द्र लोके ॥ १७ ॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाजमनल्पकान्ति विद्योतयजगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥ किं शर्वरीषु शशिनाह्नि विवखता वा युष्मन्मुखेन्दुदलितेषु तमःसु नाथ । निष्पन्नशालिवनशालिनि जीवलोके कार्य कियजलधरैर्जलमारनः ॥ १९ ॥ ज्ञानं यथा त्वयि विभाति कृतावकाश नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता मुबि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रा- नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।। २२ ।। त्वामामनन्ति मुनयः परमं पुमांस- मादित्यवर्णममलं तमसः परस्तात् । at काव्यमाला। त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥ २३ ॥ त्यामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधा- त्त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धातासि धीर शिवमार्गविधेर्विधाना- द्व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ॥ २५ ॥ तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन भवोदविशोषणाय ॥ २६ ॥ को विस्मयोऽत्र यदि नाम गुणैरशेषै- स्त्वं संश्रितो निरवकाशतया मुनीश । दोषैरुपात्तविविधानयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ उच्चैरशोकतरुसंश्रितगन्मयूख- माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥ २८ ॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदावम् । बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥ १. मदनस्य क्षयहेतुम्. २. 'विबुधाश्रय' इति पाठः भक्तामरस्तोत्रम् । कुन्दावदातचलचामरचारुशोमं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्करुचिनिर्झरवारिधार- मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ छत्रत्रयं तव विभाति शशाङ्ककान्त- मुच्चैःस्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ [गम्भीरतारवपूरितदिन्विभाग- स्त्रैलोक्यलोकशुभसंगमभूतिदक्षः । सद्धर्मराजजयघोषणघोषकः स- न्खे दुन्दुभिर्नदति ते यशसः प्रवादी ॥ ३२ ॥ मन्दारसुन्दरनमेरुसुपारिजात- संतानकादिकुसुमोत्करवृष्टिरुद्धा। गन्धोदबिन्दुशुभमन्दमरुत्प्रयाता दिव्या दिवः पतति ते वचसां ततिर्वा ।। ३३ ॥ शुभत्प्रभावलयभूरिविभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती । प्रोद्यद्दिवाकरनिरन्तरभूरिसंख्या दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥ ३४ ॥ स्वर्गापवर्गगममार्गविमार्गणेष्टः सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व- भाषास्वभावपरिणामगुणप्रयोज्यः ॥ ३५॥] १. गम्भीरेत्यादिपद्यचतुष्टयं श्वेताम्बरैर्न व्याख्यातम्, अस्माकमप्येतत्प्रक्षिप्तमेव भाति. २. 'ध्वनाते'. उद्धा प्रशस्ता. भतल्लिकादयः शब्दाः समासान्तर्गता एव प्रशस्व- वाचकाः उद्धशब्दस्तु समासं विनापीति रामाश्रम्यां द्रष्टव्यम्. काव्यमाला। उन्निद्रहेमनवपङ्कजपुञ्जकान्ती पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र धत्तः पद्मानि तत्र विवुधाः परिकल्पयन्ति ॥ ३६ ॥ इत्थं यथा तव विभूतिरभूजिनेन्द्र धर्मोपदेशनविधौ न तथा परस्य । याहक्प्रभा दिनकृतः प्रहतान्धकारा तादृकुतो ग्रहगणस्य विकासिनोऽपि ॥ ३७॥ श्च्योतन्मदाविलविलोलकपोलमूल- भत्तभ्रमद्भमरनादविवृद्धकोपम् । ऐरावताममिममुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भक्दाश्रितानाम् ॥ ३८ ॥ भिन्नेभकुम्भगलदुज्वलशोणिताक्त- मुक्ताफलपकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३९ ॥ कल्पान्तकालपवनोद्धतवहिकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव संमुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ४०॥ रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेण निरस्तशङ्क- स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ११ ॥ १, औषधिविशेषः. भक्तामरस्तोत्रम् । वल्गतुरङ्गगजगर्जितभीमनाद- माजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ४२ ॥ कुन्तामभिन्नगजशोणितारिवाह- वेगावतारतरणातुरयोघभीमे। युद्धे जयं विजितदुर्जयजेयपक्षा- स्त्वत्यादपङ्कजवनायिणो लभन्ते ॥ ४३ ॥ अम्मोनिधौ क्षुभितभीषणनक्रचक्र- पाठीनपीठभयदोल्वणवाडवाग्नौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा- स्त्रासं विहाय भवतः स्मरणाद्व्रजन्ति ॥४४॥ उद्भूतभीषगजलोदरभारभुग्नाः शोच्यां दशामुपगताच्युतजीविताशाः । त्वत्पादपङ्कजरजोभृतदिग्धदेहा मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४५ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममत्रमनिशं मनुजाः सरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४६॥ मत्तद्विपेन्द्रमृगराजदवानलाहि- सङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ १७ ॥ १. वारिवाहा जलप्रवाहाः २. 'चके' इति पाठ.. ३. 'भप्ताः', 'मग्नः' इति च . १० काव्यमाला। स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुप्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४८ ॥ इति श्रीमानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् ।