महागणपतिस्तोत्रम् (राघवचैतन्यविरचितम्)
महागणपतिस्तोत्रम् राघवचैतन्यः १९२९ |
श्रीराघवचैतन्यविरचितं
महागणपतिस्तोत्रम् ।
तच्छिष्यकृतया टिप्पण्या समेतम् ।
योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय-
प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् ।
आनन्दप्ठवमानबोधमधुरामोदच्छटामेदुरं
तं भूमानमुपासहे परिणतं दन्तावलास्यात्मना ॥१॥
दन्तावलो गजस्तस्यैवायं मुखं यस्य स गजाननस्तदात्मना तद्रूपैण परिणतं तं भूमानं पर ब्रह्मोपास्महे । कीदृशं तम् । आनन्दो ब्रह्मानन्दस्तेन प्लक्मानः । लक्षणया पूर्णानन्दामित इत्यर्थः । ईदृशो यो बोधस्तेन चिदानन्दमयं स्वरूपमुकम् । तद्विवर्तरूपः प्रपञ्च एव मधुरामोदच्छटात्वेन रूपितस्तेन मेदुरम् । पुनः कीदृशम् । योगविदां योगम् । कीदृशां योगविदाम् । विधूतो विविधो व्यासङ्गो यैरत एव शुद्धो य आशयस्तस्मिन्प्रा-- दुर्भूतः सुधारतः शान्तिसुखं येषां तेच ते च ते प्रसृमरं प्रसारि ध्यानं यस्मिनीदृशं यदास्पदं कंदरादि तदध्यासिनश्च तेषाम् ॥
तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदु-
स्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाभ्यर्थ्यते ।
आमध्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं
खामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २ ॥
महागणपतिमन्त्रमुद्धरति–तारः प्रणवः, श्रीलक्ष्मीबीजम्, परशक्त्तिर्मायाबीजम्, कामः कामबीजम्, वसुधा भूमिबीजम् , इति पञ्चरूपाणां बीजानामनु गमित्यक्षरमेताशं साधका विदुस्तस्मै गणाधिपतये प्रणतिः स्वादिति योजना । यः सततं स्वाहाखथा- दिभिः शक्तिभिः पूजितः । आतेन रागिणा प्रथमं वरेति ततो वरदेसामन्याभ्यर्थ्यते। अभ्यर्थनामेवाह--सर्व जनं स्वामिन्मे वशमानयेति । साहादिभिरित्यनेन स्वाहान्तो मन्त्रः। अत्राधिपदं सर्वमिति च पदं छन्दोनुरोधादुक्तम् । मन्त्रे तु गणपयते तथा सर्वजन- मित्येकमेव पदम् । खामिन्निति च मन्त्राद्बूहिर्भूतम् ॥
कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।
मूले कल्पतरोमहामणिमये पीठेऽक्षराम्भोरुहे
षट्कोणाकलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३॥
कल्लोलानां महोर्मीणासञ्चलाः प्रान्तास्तैराश्लिष्टा मेघततिर्येनेतादृश इक्षुरससमुद्रे सुर- द्रुमाणां पारिजातादीनां वनं तदामोदेन परिपुष्टे । रत्नमयं द्वीपं वारिमध्यस्थलं तद्गतस्य कल्पतरोर्मूले महामणिमयं पीठं तत्र पदकोणयुक्तत्रिकोणकर्णीकायुक्तेऽक्षराम्भोरुहे तन्न- प्रसिद्धे मातृकाकमलेऽमुं महागणपतिं भजे ॥
चक्रप्रासरसालकार्मुकगदासद्वीजपूरद्विज-
ब्रीडमोसलपाशपङ्कजकरं शुण्डाग्रजामहटम् ।
आश्लिष्टं प्रियया सरोजकरया रतस्करभूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥४॥
चक्र प्रसिद्धम् , प्रासत्रिशूल:, रसालकार्मुकभिक्षुधतुः, गदा प्रसिद्धा, बीजपूरो मातुलिङ्गम्, द्विजः स्वकीयो दन्तः, व्रीह्यग्रं शालिमक्षरी, उत्पलं प्रसिद्धम् , पाशुपङ्कजे च प्रसिद्धे, एवं दशायुधानि करेषु यस्य । शुण्डाप्रे पुष्करे आप्रतिस्थतो गटो रत्न्पूर्णो हेम- कुम्भो यस्य । कमलहतया प्रियया दक्षिणहस्तेनालिङ्गितं माणिक्यप्रतिमं शोणच्छविं सर्वेश्वरं महागणपतिमाशास्महे ।।
दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृ-
सिन्दूरारुणगण्डमण्डलयुगव्याजात्मशस्तिद्वयम् ।
त्रैलोक्येष्टविधानवर्णसुभगं यः पद्मरागोपमं
घत्ते स श्रियमातनोतु सततं देवो गमानां पतिः ॥५॥
दानाम्भसा मदाम्बुना परिमेदुरे व्याप्तं प्रसृमरान्व्यालम्बिनो रोलम्बान्प्रमरान्वि- भर्तीति प्रसूमरव्यालम्बिरोलम्बमृत् । सिन्दूरेणारुणमेतादृशं कुम्भप्रदेशद्भयं तस्स भीषा त्रैलोक्येष्टविधानवर्णसुभगं त्रिभुवनशुभविध्यक्षरमनोज्ञम् । पद्मरागोपयं पद्मरागो लोहि- तकस्तदुपमं प्रशस्तिद्वयं यो धत्ते ख गणानां पतिर्देवः सततं श्रियमातनोतु । यथा मृदम्बुलिप्ते दारुफलके रक्तचूर्णं दत्त्वाक्षराणि, तथा दानाम्बुलिप्ते सिन्दूरवति कुम्भस्थले भ्रमरा इत्युक्तं भवति ॥
भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा-
सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वंकषाः ।
दिक्कान्ताधनसारचन्दनरसासाराः श्रयन्तां मनः
खच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६ ॥
हेरम्बदन्तत्विपो मनः श्रयन्ताम् । किंभूताः । भ्राम्यतो मन्दरस्य धूर्णनावृत्तयस्त- दायत्तस्य क्षीराब्धेवींचयो लहर्यस्तासां छटा अग्रभागास्तैः सदृशाः । पुनः कीदृशाः। चलचामरव्यतिकर श्रीगर्वसर्वकृषाः । व्यतिकरो व्यतिपङ्गः । दिक्कान्तेत्यादिरूपकम् । घ- नसारः कर्पूरः। तथा स्वच्छन्दप्रसारप्रलिप्तवियतोऽनल्पसंचाराकीर्णाकाशाः । एतेन त्विषां बहुत्वं व्यज्यते ॥
मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा-
कान्ताः कम्बुकदम्बचुम्बितघनाभोगप्रवालोपमाः ।
ज्योत्स्नापूरतरङ्गमन्थरतरसंध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७॥
मौक्तिकसमूहमिश्रितप्रधीप्तमाणिक्यसमूहच्छटावत्कान्ता मनोहराः । शङ्गसमूहसंगत- विस्तीर्णविदुमसमा:: । योलापूरतर मन्धरं तरन्ती चासौ अध्या च तस्या वयस्याः साभ्यासत्यः । एतादृशा हेरम्बस्य दन्तकिरणैर्व्याप्ताः शरीरत्विषश्चिरं जयन्ति॥
शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षर-
न्नानारत्नचयेन साधकजनान्संभावयन्कोटिशः।
दानामोदविनोदलब्धमधुपप्रोत्सारणाविर्मव-
त्कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८॥
शुण्डाप्रधृतसुवर्णकलशसंगृहीतेन क्षरता बहुत्लावाद्बहिरपि निर्गच्छता मुकामाणिक्या- दिरत्नसमूहेन कोटिशः साधकजनान्संभावयन्नसंख्यातानुपासकान्संपदा वर्धयन् । दाने- त्यादि । आमोदो गन्धहर्षयोः । प्रोत्सारणमुच्चाटनं तदर्थमाविर्भवत्कर्णान्दोलनकोडः। गणानामिश्वरो देवो विजयते ॥
हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया
विभत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन् ।
न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तया दक्षिणे
बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां शुभम् ॥ ९ ॥
शाण्डिल्यमूले बिल्ववृक्षस्याधो यस्य महागणपतेः पुरतोऽप्रमागे पद्में विधागा श्रिया समं ते प्रसिद्धे शङ्खचके वहन्मधुरिपुर्विष्णुरस्ति । तथा यस्य दक्षिणे मनोधा तले वटवृक्षाधः पाशाङ्कुशाभ्यामितया सहितयाद्रिसुतया पार्वत्या सह परशुं त्रिशूलं च विभ्राण: शंभुः शिवोऽस्ति ॥
पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले
बिभ्रत्या सममैक्षवं धनुरिपून्पौष्पान्वहन्पञ्च च ।
वामे चक्रगदाधरः स भगवान्क्रोडः प्रियंगोस्तले
हस्तोद्यच्छुक शालिमञ्जरिकया देव्या धरण्या सह ॥ १० ॥
देवस्य पश्चिमे पिप्पलवृक्षस्याध उत्पले विभ्रत्या रत्या समर्गक्षयं धनुः पश पीप्पा- निषूंश्च वहरतिपतिः कामदेवोऽस्ति । अस्य च बागे प्रियंगुष्टक्षापो शालिमxxxx. ञ्जरिकयैकस्सम्न्करे क्रीरमन्यत्र कलमकणिशं बिभ्रत्या धरण्या यह स प्रसिद्धो भगवा- न्क्रोडो वराहोऽस्ति तं हेरम्बं प्रणमामीति पूर्वेणान्वयः ॥
षट्कोणाश्रिषु षदसु षड् गजमुखाः पाशाशाभीवरा-
न्बिभ्राणाः प्र्मदासखाः पृथुमहाशोणाश्मपुञ्जत्वियः ।
आमोदः पुरतः प्रमोदसुमुखौ तं चामितो दुर्मुखः
पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११ ॥
षट्रकोणस्य पीठस्य षट्स्वाश्रिषु पालीषु षड् गजमुखा ध्येयाः । कीदृशास्ते । पाशाङ्कुशा- भयवरान्हस्तेषु बिभ्राणाः । प्रमदानां सखाय इति प्रमदासखाः । भार्यासहिता इत्यर्थः । पृथुश्चासौ महाशोणाश्मनां पद्मरागाणां पुञ्जस्तद्वत्तिट् क्रान्तिर्येषो ते । यदि. 'पृषुमहा:' इति विसर्गान्तः पाठस्तदा भिन्नं पदम् । पृथुर्महो येषां ते । अकारान्तोऽपि महशब्दोऽस्ति । तेषां नामान्याह----पुरतोऽप्रकोण आमोदः । तं चामोदसमितः प्रमोदसुमुखी । पुरः कल्पितपूर्वदिगपेक्षयाग्निकोणे प्रमोदः, एवमीशानकोणे सुमुख इयर्थः । पश्चापश्चिमकोणे दुर्मुखः । अस्य दुर्मुखस्य विघ्न इति यस्य नाम स एकस्मिन्पार्श्वे, विघ्नक र्तेति यस्य नाम स द्वितीयपार्वेऽस्ति । अर्थादेको नैर्ऋत्यकोणे, अपरो वायव्ये वर्तते ।
आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः
कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः ।
कान्तिर्या मदनावतीत्यपि तमा कल्पेषु या गीयते
सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२ ॥
कान्तस्य खखभर्तुरालिङ्गनरसं जानन्त्यत एव मन्थरा रागिणी दृग्यासां ताः । आ-. मोदादीनां पूर्वश्लोकोक्तानां षण्णां भार्यातेषां समीपे स्थिता ध्येयाः । तासां नामानि च-सिद्धिः, समृद्धिः, कान्तिः, मदनावती, मदद्रवा, द्राविणी चेति ॥
आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ
वर्पन्तौ वसु पार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी ।
अल्गान्यन्वथ मातरश्व परितः शक्रादयोऽब्जाश्रया-
स्तद्बाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥ १३ ॥
वसुधमा वसुमत्या च कमेणालिङ्गितौ शुक्लरक्तवर्णौ धनं वर्सन्तौ शङ्खपद्मसंशौ प्र- सिद्धौ नीधी पदकोणपार्श्वयोर्बिलसतः । तयोर्प्यानं कुर्यादित्यर्थः । अनु निधिध्यानानन्तरं हृदयादि षडङ्गानि ध्यायेत् । परितो ब्राह्म्याद्या अष्ट मातरो ध्येयाः। षट्कोणाद्बहिः स्थिते- ऽष्टदलकमल इन्द्रादयो दिक्पालास्तद्बाह्ये तेषां समीप एक परिपतत्कालानलज्योतिषः प्रदीप्तस्वरूपा इन्द्रादीनां हेतयो बन्ध्राद्या ध्येया:॥
इत्थं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं-
काराक्षिप्तसमस्त दैत्यपृतनाव्राताय दीप्तविपे ।
आनन्दैकरसावबोधलहरीविध्वस्तसर्वोर्मये
सर्वत्र प्रथमानमुग्धमहसे तसै परस्मै नमः ॥ १४ ॥
हेरम्बं प्रणमामि' (९।१०) इति श्लोकाभ्यां विष्णुशिवादिस्वस्मैस्तनुर्मूर्तिर्यस्य स तस्मै । आदिपदात्स्मरक्रौडौ । हुंकारमात्रेण निरस्तसमस्तासुरसैन्यसमूहाय दीप्तकान्तये । आनन्देति । निरतिशयसुखस्फुरणतरङ्गैर्दूरीकृतसंपूर्णोर्मये । ऊर्मयः षड्भावविकाराः । ते च--जायते, अस्ति, वर्धते , विपरिणमते, अपक्षीयते, नश्यतीति च । आनन्दैकरसाव- व्योधलहरीभिर्विध्यस्थाः सर्वेषां साधकानामूर्मयः पडिन्द्रियजन्या वृत्तयो यस्मादि- स्येके ऊर्मिशाब्देनाविद्यादयो योगशास्त्रप्रसिद्धाः क्लेशाः । सर्वत्र प्रथमान मुग्धं सुन्दरं महो यस्य तस्मै परस्मै जगतोऽन्यस्मै नमः ॥
सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी-
कोटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् ।
राजन्नीराजनश्रीसखचरणनखद्योतविद्योतमान:
श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥१५॥
सेवायं हेवाकोऽमिलाषो येषाम् । बहमग्रेऽहमग्रे भवामीतीच्छा । अहंपूर्विकेति या- 'बत् । तेच ते दवासुरनराणां समूहास्तेषां देवीप्यमान मुकुटाप्राणां या कोटिः संख्या- विशेषस्तत्र व्याटीकमानाः सुसंगताः सूर्मतुल्यरत्नपङ्क्तिकान्तिप्रवाहासेषाम् । राजन्ती नीराजनश्रीरारात्रिकशोभा तस्याः सखायस्ते च ते चरणनखाश्च तेषां द्योतेन प्रकाशन विद्योतमानः स प्रतिः सिन्धुरास्यो गजमुखः । हे विमलदृशः पण्डिताः । मम इन्धुरं रम्यं स्थेयः स्थिरतरं श्रेयः कल्याणं देयात् । ममेत्यस्य वा विमलश इति विशेषणम् । 'विमलहशा' इति पाठ तु सौम्यावलोकनेन श्रेयो दद्यादित्यर्थः ॥
एतेन प्रकटरहस्यमन्त्रमालागर्भेण स्फुटतरसंविदा स्तवेन ।
यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥१६॥
स्फुटतरसंविदेत्यनेन स्तोत्रे प्रसादगुणः सूचितः । प्रचुरतरं मुहुर्मुहुः । अन्यस्पष्टम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीराघवचैतन्यविरचितं महागणपति- स्त्रोत्रं तच्छिष्यकृतया टिप्पण्या समेतं समातम् ।