निखिलमपि नगरं विलोक्य कमपि मूर्खममात्यो नापश्यत् , यं निरस्य विदुषे गृहं दीयते । तत्र सर्वत्र भ्रमन्कस्यचित्कुविन्दस्य गृहं वीक्ष्य कुविन्दं प्राह--'कुविन्द, गृहान्निःसर । तव गृहं विद्वानेष्यति' इति । ततः कुविन्दो राजभवनमासाद्य राजानं प्रणम्य प्राह-'देव, भवदमात्यो मां मूर्खं कृत्वा गृहान्निःसारयति, त्वं तु पश्य मूर्खः पण्डितो वेति ।
काव्यं करोमि नहि चारुतरं करोमि
यत्नात्करोमि यदि चारुतरं करोमि ।
भूपालमौलिमणिमण्डितपादपीठ
हे साहसाङ्क कवयामि वयामि यामि ॥ ९४ ॥
ततो राजा त्वङ्कारवादेन वदन्तं कुविन्दं प्राह-'ललिता ते पदपङ्क्तिः, कवितामाधुर्यं च शोभनम्, परन्तु कवित्वं विचार्य वक्तव्यम्' इति । ततः कुपितः कुविन्दः प्राह-'देव, अत्रोत्तरं भाति किन्तु न वदामि । राजधर्मः पृथग्विद्वद्धर्मात्' इति । राजा प्राह–'अस्ति चेदुत्तरं ब्रूहि' इति । कुविन्दः प्राह-देव , कालिदासादृतेऽन्यं कविं न मन्ये । कोऽस्ति ते सभायां कालिदासादृते कवितातत्त्वविद्विद्वान् ।
यत्सारस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं
तल्लभ्यं कविनैव नैव हठतः पाठप्रतिष्ठाजुषाम् ।
कासारे दिवसं वसन्नपि पयःपूरं परं पङ्किलं
कुर्वाणः कमलाकरस्य लभते किं सौरभं सैरिभः ॥९५॥
अयं मे वाग्गुम्फो विशदपदवैदग्ध्यमधुरः
स्फुरद्बन्धो वन्ध्यः परहृदि कृतार्थः कविहृदि ।
कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः
कुमारे निःसारः स तु किमपि यूनः सुखयति ॥ १६ ॥ इति
विद्वज्जनवन्दिता सीता प्राह-
विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे ।
निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी ॥ ९७ ॥
ततः कुविन्दः प्राह- बाल्ये सुतानां सुरतेऽङ्गनानां स्तुतौ कवीनां समरे भटानाम् ।(१) "लुलायो महिषो वाहद्विषत्कासरसरिभा” इत्यमरात् महिष इत्यर्थः ।