लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ११४

विकिस्रोतः तः
← अध्यायः ११३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ११४
[[लेखकः :|]]
अध्यायः ११५ →

श्रीनरनारायण उवाच-
बद्रिकेऽथ विमानानि यान्ति ब्रह्महृदोत्तरम् ।
विमानस्था ब्रह्ममुक्ताः पश्यन्ति कौतुकान्विताः ।। १ ।।
ब्रह्मरससमुद्रं वै सहस्रयोजनायतम् ।
असंख्ययोजनदीर्घं ब्रह्मानन्दरसप्रदम् ।। २ ।।
यद्रसास्तत्र मुक्तानां शाश्वतानन्ददायकाः ।
तथा वै शाश्वततृप्तिप्रदा दिव्यसुधामयाः ।। ३ ।।
यद्रसेषु च सामुद्रा मुक्ता वसन्त्यसंख्यकाः ।
दिव्यशाश्वतसम्मिष्ठानन्दभोगातिमोदिनः ।। ४ ।।
रत्नधराः कृष्णरूपा दिव्यकुण्डलशोभनाः ।
दिव्यमुकुटकटकादिभिर्विभूषणैर्युताः ।। ५ ।।
रसचारा व्योमचाराः सच्चिदानन्दविग्रहाः ।
यथेष्टरूपधर्तारः सपक्षाः सकराश्च वै ।। ६ ।।
यादसां रूपधर्तारो विहंगरूपधारिणः ।
प्रशाखिरूपधर्तारो रमाश्रीरूपधारिणः ।। ७ ।।
अनेकाश्चर्यसम्पूर्णं ब्रह्मरससमुद्रकम् ।
वीक्ष्य विमानगाश्चाग्रे ययुः पारं परं शुभम् ।। ८ ।।
दिव्यसमस्तरत्नाढ्यं दिव्यतेजोऽभिविस्तरम् ।
दिव्यमृद्वीवालुकाभिर्व्याप्तं सर्वर्द्धिशोभनम् ।। ९ ।।
कोटिकोट्यर्कभावद्भिर्नौकागृहैश्च कोटिभिः ।
कोटिविमानविश्रामैर्महाशालैः सुशोभितम् ।। 4.114.१ ०।।
ब्रह्मतत्त्वविमानानां कोटिगृहैर्विराजितम् ।
आक्षरभूप्रदेशानां राजमार्गाभिसंगतम् ।। १ १।।
आगमैर्विगमैश्चापि विमानानां प्रघोषितम् ।
धामविमानयानानामवतारतलान्वितम् ।। १२।।
असंख्यमानसयन्त्रैर्वस्तुविनिमयान्वितम् ।
अपारमुक्तशालाभिव्यवसायविराजितम् ।। १३।।
आगतानां लेखशाला कोटिकोट्यभिराजितम् ।
अवतारणचिह्नाढ्यध्वजदीपाभिभासुरम् ।। १४।।
महादिव्यद्रुमोद्यानमहाराजिवनान्वितम् ।
द्वीपोपद्वीपशोभाढ्यं महाबन्धसमीकृतम् ।। १५।।
दिव्यसोपानसेत्वाढ्यं दिव्यवेलाभिशोभनम् ।
दिव्यावतारसंराजत्तीरहीरकमञ्जुलम् ।। १६।।
विश्रामशालासंव्याप्तमसंख्यधामधामिनाम् ।
असंख्यनगरावासाभिरामं ते व्यलोकयन् ।। १७।।
एतादृशं परं तीरं प्राप्य शोभां समीक्ष्य च ।
आतिवाहिकमुक्ताद्यैरर्चितास्ते विमानगाः ।।१८।।
ययुरग्रे मुदा व्याप्ता वनानि विलुलोकिरे ।
दिव्यसुगन्धिपत्राणि मिष्टपीयूषवन्ति च ।। १९।।
नेत्राऽऽह्लादप्रदाऽरण्यान्यलोकयन् विमानगाः ।
प्रफुल्लपुष्पवल्ल्याढ्यदिव्यपुष्पितपादपान् ।।4.114.२०।।
स्तबकाँस्तरुषण्डाँश्च दिव्यशोभान् व्यलोकयन् ।
यथेष्टरूपसम्पन्नान् कायाविवर्तनप्रभून् ।।।२१ ।।
सर्वसिद्धिमयान् ब्रह्माऽऽपूरकान् द्रून् व्यलोकयन् ।
आक्षरीदिव्यभूमिस्थान् नैकरंगांऽगशोभनान् ।।।२२।।।
सुधास्वादुफलाढ्याँश्च दिव्यान् द्रुमान् व्यलोकयन् ।
कन्दिमूलिदलिमुक्तान् शाखितन्तुमतो द्रुमान् ।।२३।।
कदम्बकान् ब्रह्मदारून् पाटलान् पारिजातकान् ।
सर्जतरून् चम्पकाँश्चाऽशोकान् शृङ्गारपादपान् ।।२४।।
तिलकान् बकुलान् लोध्रान् किंशुकान् खदिरांस्तथा ।
कुन्दान् सहस्रपद्माँश्च केसरान् स्थलपद्मकान् ।।।२५।।
चन्दनान् बदरान् जम्बीरकान् सुनवरंगकान् ।
कृष्णफलान् रामफलान् लक्ष्मीफलाँस्तथाऽमृतान् ।।२६।।।
श्वेतफलान् लिकुचाँश्च कदलान् नालिकेरकान् ।
खर्जुरान् खारिकाँश्चापि दाडिमान् जम्ब्वजीरकान् ।।२७।।
मिष्टनिम्बून् तिन्तिडीश्च पनसान् मधुकाँस्तथा ।
आम्रानाम्रातकान् बिल्वान् चिरबिल्वान् रतालुकान् ।।२८।।
द्राक्षान् काजून् बदामाँश्च सन्तरान् सुकपित्थकान् ।
एलालवंगजावन्त्रीद्रुमान् तिक्तादिवल्लिकाः ।।२९।।।
त्वक्सारान्कीचकान् प्लक्षान्वटान् सांगान्शमीद्रुमान् ।
शिशपान् नागवल्लीश्च कल्पवल्लीर्जोवन्तिकाः ।।4.114.३०।।
मालतीश्चित्रपर्णाश्च कमलानि व्यलोकयन् ।
कल्पद्रुमान्नास्पतिकान् चिकुकान् मिष्टकर्दमान् ।। ३ १।।
सूर्यमुखान् चन्द्रदलान् ब्रह्मपत्रान् रमारसान् ।
सुधाधारान्मधुव्रातान् कामपूरान् व्यलोकयन् ।। ३२।।
पयोभृतान् मिष्टकुंभान् शार्करान् समलोकयन् ।
मिष्टमोहनकान् शैत्यद्रुमान् कर्पूरकानपि ।।३३।।।
रतिस्वादान् मोदकणान् आमोदद्रून् व्यलोकयन् ।
प्रमौक्तिकान् रत्नगुच्छान् स्वर्णपुष्पान् हिरण्मयान् ।।३४।।
कानकान् राजतान् वृक्षान् दार्पणद्रून् व्यलोकयन् ।
स्वर्णहारान् गन्धमालान् भूषाफलान् व्यलोकयन् ।। ३५।।
चिदम्बरान् सत्प्रणादान् चिदानन्दद्रुमाँस्तथा ।
दधिक्राव्णान् मुनिमोदान् श्रीद्रवानप्यलोकयन् ।।३६।।
सिद्धपादान्मनोवर्षान् चिन्तावल्लीर्व्यलोकयन् ।
अक्षय्यपत्रकान् चाज्यलताः प्रदीपपादपान् ।। ३७।।
तक्रपुटान् मणिशाखान् स्वर्णमूलान् व्यलोकयन् ।
कौंकुमान् शीतचूर्णांश्च कज्जलिकान् व्यलोकयन् ।।३८।।
आलक्तकान् पिंगरसान् महीदीनान् महाक्षतान् ।
निवारान् पूगकान् जातिफलान् मल्लिकवल्लिकाः ।।३९।।
सदापुष्पा नित्यफला ब्रह्मशिम्बीर्व्यलोकयन् ।
श्रीफलान् श्रीद्रुमकाँश्चाऽऽमलकान् जलपद्मकान् ।।4.114.४० ।।
फलजनान् त्रिमूरूँश्च प्रवालान् वालशिंग्रकान् ।
केशधारान् मृदुलेह्यान् गन्धसारान् सुशाल्मलान् ।।४१ ।।
कार्पासकान् कुशेयकान् कलमान् देवविग्रहान् ।
चैतन्यफलिनश्चापि कमलानि व्यलोकयन् ।।४२।।
एवंविधान्यसंख्यानि महारण्यानि चाऽक्षरे ।
दिव्यमुक्तस्वरूपाणि कामरूपाणि सर्वथा ।।४३।।।
अनादिश्रीकृष्णनारायणार्थं संस्थितानि वै ।
कामगानि समस्तानि वनानि समलोकयन् ।।४४।।
तेजःपत्राणि नालानि महोद्यानानि चाभितः ।
आरामाँश्च तडागाँश्च सरितश्चाऽप्यलोकयन् ।।४५।।
वनोद्यानमयीं भूमिं दशसाहस्रयोजनाम् ।
आयतां परितो व्याप्तां चाक्षरीं समलोकयन् ।।४६।।
यासु मुक्ता अनन्ता वै ब्रह्मरूपा वसन्त्यपि ।
अरण्यानि सकलानि मुक्ताश्रितानि वीक्ष्य च ।।४७।।
आश्चर्यं परमं प्रापुर्मुक्ता ब्रह्मप्रियादयः ।
तैः कृता विविधाः पूजाः कृष्णनारायणस्य वै ।।४८।।
विमाने चाऽम्बरे गत्वा बद्रिके फलचन्दनैः ।
उपदाभिर्दिव्यदानैस्तोषितः स्वपतिर्हरिः ।।४९।।
अथोल्लंघ्याऽरण्यभूमिं पर्वतानागतान् बहून् ।
व्यलोकयन् दिव्यरूपान् कोटिसूर्यसमप्रभान् ।।4.114.५०।।
अरण्यानीयुतान् दीर्घगह्वरान् मुक्तसेवितान् ।
सौवर्णै राजतैः शृंगै रत्नशृंगैः सुशोभितान् ।।५१।।
मणिभिर्विविधैर्दिव्यैः संभृतान् हीरकोज्ज्वलान् ।
वज्रशृंगैस्तथा मुक्ताशिखरैरतिशोभितान् ।।५२।।
पद्मरागाद्रिपंक्तिध्रैरन्वितान् दीर्घसेतुभिः ।
मारकतैश्च शिखरैरिन्द्रनीलतलान्वितैः ।।५३।।
वैदूर्येरन्वितान् पुष्परागशृंगैर्विराजितान् ।
कर्केतनानां शिखरैर्भीष्मकानां कटिभ्रमैः ।।५४।।
पुलकानां मध्यभागै रुधिरभ्वा प्रशोभितान् ।
स्फटिकशृंगहारैश्च विद्रुमोर्ध्वस्थलैर्युतान् ।।५५।।
चिन्तामणियुतानद्रीन् कौस्तुभादिसमन्वितान् ।
माणिक्यवर्णैः शिखरैः सुशोभितानलोकयन् ।।५६।।
सिद्धमुक्तनिवासाढ्यान् गान्धर्वमुक्तशोभितान् ।
विद्वन्मुक्तकृतावासान् तापसानां गृहान्वितान् ।।५७।।
योगिमुक्तालययुतान् ब्रह्मयुक्ताधिवासितान् ।
कलामुक्ताश्रमयुतान् साधुमुक्ताद्यधिष्ठितान् ।।५८।।
कमठैर्होत्रिभिर्मुक्तैः कृतावसथमन्दिरान् ।
भक्तिधरैस्तथा मुक्तैः स्थले स्थले कृतालयान् ।।।५९।।
अधित्यकासु वै देवमुक्तैरुद्यानवासिभिः ।
स्थापितश्रीमहाग्रामानद्रीन् दिव्यानलोकयन् ।।4.114.६० ।।
निकुंजैर्मुक्तकोटीनां निर्झरैर्दिव्यवारिभिः ।
आपगाभिश्च दिव्याभिर्ब्राह्मीभिरुपशोभितान् ।।६१।।
सच्चिदानन्दसलिलैरमृतैः संभृतैः शुभैः ।
सरोवरैर्महारम्यैः शोभिताद्रीनलोकयन् ।।६२।।
कमलैः पद्मनिवहैः कल्हारैः कुमुदैः शुभैः ।
पुण्डरीकैररविन्दैर्नलिनीकुसुमैर्युतान् ।।६३।।
तटान् सुगन्धिपुष्पाणां परागाढ्यानलोकयन् ।
दिव्यान् हंसान् सारसाँश्च गरुडाननलान् खगान् ।।६४।।
शुकमेनामयूराँश्च दिव्यमुक्तानलोकयन् ।
भारद्वाजान् चातकाँश्च कामरूपधरान् बहून् ।।६५।।
मुक्तरूपान् दिव्यपक्षिगणान् सर्वानलोकयन् ।
गजान्सिंहान् मृगान् दिव्यान् दिव्याश्वान् समलोकयन्।।६६।।
धेनूश्चमरीर्महिषीर्मृगान् शार्दूलकानपि ।
दिव्यान् सत्त्वान् मुक्तरूपान् कामरूपानलोकयन् ।।६७।।
शाखामृगान् दिव्यरूपान् हनूयुतान् प्लवंगमान् ।
सपक्षाँश्च परीगणान् पर्वतेषु व्यलोकयन् ।।६८।।
दशसाहस्रभूभागायतान् वीक्ष्य गिरीश्वरान् ।
बद्रिके कोटिशृंगाख्यं महाशैलमलोकयन् ।।६९।।
स्वर्णमात्रस्वरूपं च स्वर्णमात्रोत्थवस्तुकम् ।
असंख्यसूर्यभावन्तं हिरण्याद्रिमलोकयन् ।।4.114.७०।।
असंख्ययोजनदीर्घं लक्षयोजनकाऽऽयतम् ।
सच्चिदानन्दतत्त्वाढ्यं ब्रह्मतत्त्वमयं गिरिम् ।।७१ ।।
असंख्यसुरमुक्तानां नगरैरधिवासितम् ।
अनेकाश्चर्यसंयुक्तमनेकज्योतिरन्वितम् ।।७२।।।
दिव्यामृतमेघकोटिकोट्यब्भ्रघनसंश्रितम् ।
असंख्याऽमृतसरिदाच्छन्ननिम्नप्रणालिकम् ।।।७३।।
दिव्यदीपौषधिव्रातैरलंकृतं महागिरिम् ।
सुशोभितं प्रवीक्ष्यैवोपत्यकासु व्यलोकयन् ।।७४।।
लक्षयोजनभूभागाऽऽयतासु हरितासु वै ।
अनेकमुक्तसंघान् संस्थितान् नगरसंश्रितान् ।।७५।।
नदीनदतटाकाद्यैर्युक्तानावसथाँस्तथा ।
वाट्युद्यानमहारामान् व्यलोकयन् विमानगाः ।।७६।।
सौवर्णवनमध्ये चाऽपश्यन् नृत्यस्थलीं प्रभोः ।
दिव्यकुंजनिकुंजाढ्यां सर्वोद्भिज्जातिमुक्तकैः ।।७७।।
उषित्वा शोभितां कृष्णनारायणस्य सौख्यदाम् ।
यत्र वै ब्रह्मसरसो ब्रह्ममुक्तानिकाः शुभाः ।।७८।।
ब्रह्मपुमांस एवैते नृत्यन्ति कृष्णतुष्टये ।
वर्तुलां दिव्यसौधाढ्यां दशसाहस्रयोजनाम् ।।७९।।
दिव्यसभागृहगर्भां सर्वभोगसमन्विताम् ।
कोटिकोट्यर्कभाव्याप्तशिखरां चाभितः शुभाम् ।।4.114.८०।।
अनन्तरूपधारिश्रीकान्तमुक्तैः सदोषिताम् ।
दिव्यगोपुरदुर्गाद्यैर्बहुखण्डैर्विभाजिताम् ।।८१ ।।
कोटिविमानिकायुक्तां कोटिभूषालयान्विताम् ।
कोटिशृंगारशालाढ्यां कोटिवाद्यादिमन्दिराम् ।।८२।।
कोट्युपकरणैः श्रेष्ठैः संभृतरंगमण्डपाम् ।
कोटिसिंहासनस्थानां नृत्यमण्डलिकां स्थलीम् ।।८ ३।।
विलोक्याऽग्रे विमानस्था ययुः श्रीरासमण्डलम् ।
दशलक्षयोजनात्मविशालं पारमेश्वरम् ।।८४।।
कोटिस्तम्भकृताधारवृत्तमण्डपशोभितम् ।
सर्वरासोपकरणैदिव्यैः श्रेष्ठैः समन्वितम् ।।८५।।
कोटिमुक्ता निवसन्ति हर्याज्ञया तु यत्र वै ।
विमानानि सुवर्णादिदिव्यानि यत्र सन्ति च ।।८६।।
असंख्यकलशैर्युक्तश्चोपमण्डपशोभितः ।
महामण्डप एवाऽसौ राजतेऽब्जार्कवत् सदा ।।८७।।
सच्चिदानन्दसन्दोहाः सच्चिदानन्दभूस्तराः ।
सच्चिदानन्दवल्लभ्यो राजन्ते यत्र मण्डपे ।।८८।।
कल्पलताः कल्पवृक्षाः कल्पतृणानि यत्र च ।
कल्पपात्राणि संकल्पस्तबका यत्र सन्ति च ।।८९।।
चिन्तामणयः श्रेष्ठाश्चाऽक्षयपात्राणि यत्र च ।
सर्वकामदुघाः स्थल्यो बृस्यः सिद्धरसान्विताः ।।4.114.९०।।
सर्वविधान्यमृतानि सर्वरसाश्च शाश्वताः ।
महानन्दतरवश्च वर्तन्ते मानसोद्भवाः ।।९ १ ।।
प्रकाशा ब्रह्मतत्त्वोत्था वायवो दिव्यखोत्थिताः ।
सुखस्पर्शाः सुखवीक्षा यत्र भवन्ति सद्गुणाः ।।९२।।
सर्वेन्द्रियमहाभोगा भवन्ति रासमण्डले ।
अकल्प्याश्चाऽप्यगम्याश्चाऽतर्क्याश्चापि तु मानसाः ।।९३।।
दिव्यब्रह्ममया ब्रह्मोत्थिताः कृष्णेच्छया शुभाः ।
शाश्वतानन्दपूराश्च पुष्टिदाः संभवन्ति हि ।।९४।।
सुखाऽऽकर्षणदाः सर्वे भोग्या भोगा हि मण्डपे ।
समास्ते परितः सन्ति दिव्यास्ते रासमण्डले ।।९५ ।।
यथेष्टरूपधर्तारो वसन्ति मुक्तसाधवः ।
अनादिश्रीकृष्णरूपस्वरूपाऽभिन्नविग्रहाः ।।९ ६।।
बालकृष्णस्थसामर्थ्यशक्तिसर्वस्वयोजिताः ।
परमेशमहासिद्धिसमाढ्यात्मान इत्यपि ।।९७।।
जन्मजयन्तिकादौ च रासरमणकारिणः ।
मुक्तानिकाऽसंख्यभक्तानिकामण्डलसंगताः ।।९८।।
रमन्ते ते गीतगानैर्नर्तनैः कूर्दनैस्तथा ।
तालिकाभिः पादसंक्रमणैर्देहविवर्तनैः ।।९ ९ ।।
मेलनैर्भावगर्भैश्चाऽऽश्लेषैर्वक्षोभियोजनैः ।
अर्पणैः सर्वकामानां पूरणैः परमात्मना ।। 4.114.१० ०।।
तृप्यन्ति सततं मुक्ता मुक्तानिकास्वरूपिणः ।
मोदन्ते श्रीहरिं प्राप्य कान्तं कामप्रपूर्कम् ।। १०१ ।।
एतादृशं सुखकोश वीक्ष्य तद्रासमण्डलम् ।
तन्मुक्तैः कृतपूजाश्च ययुरग्रे विमानगाः ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने परमाऽक्षरब्रह्मधाम्नि ब्रह्मप्रियाहरिप्रियादिभिर्ब्रह्मह्रदोत्तरस्थब्रह्मरससमुद्रतीराऽवतारः कृतः, महावनपर्वत-हिरण्यकोटिशृंगाद्रिवनोपत्यकोद्याननृत्यस्थलीरासमण्डलानि चावलोकितानीत्यादिनिरूपणनामा चतुर्दशाधिकशततमोऽध्यायः ।। ११४ ।।