पृष्ठम्:तिलकमञ्जरी.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमलरी। सवाचखल पश्यत एव तस्स तं लेखमादाय दूरव्यासविकटकोटिना च. चक्षुपुटेन शटित्येवान्तरिक्षमुदपतत् । सैन्यपतिरपि जातविस्मयः सहान्तिकखेन पार्थिवसमाजेन 'कोऽयं शुकः, किमर्थमभ्यर्थनानन्त- रमेव तरुशिखरादितः क्षिताववतीर्णः, किं निमित्तं च लेखोऽयममुना गृहीतः, किं वाविलम्बितगतिरुदीचीमेव दिशमाश्रित्य प्रस्थितः, कि परमार्थतः शुक एवायमुत शुकच्याजेन कश्चिदिन्यः' इति कृतानेक- -विकल्पः स्थित्वाल्पमेव कालं तत्कालमनतिदूरस्थमेहीत्यन्तिके समा- इय सादरं मामवदत्-'भद्र परितोष, गच्छ त्वमविलम्बितगति- रिदानीमेव तमरण्योद्देशं यत्र युवराजसमरकेतुरघ गृहीतवानावासम् । अगणितायासश्च गत्वा. सत्वरं समर्पयान्तर्विसर्पदुद्दामशोकस्य तस खोकदाहवेदनाविच्छेदकारिणममुं कुमारकुशलप्रवृत्तिलेखम् । आचश्व चाखिलक्षोणिपाललोकसमक्षमाश्वासनाय यथादृष्टमेतमप्यादितः प्रभूति सर्वजनविस्मयकर शुकव्यतिकरम् । अतिभक्तिमानसावनुपलब्धकुमा- रकुशलवृत्तान्तो न जाने किं व्यवसति' इत्यभिधाय खहस्तेन लेखं मे समुपनीतवान् । अहं तु तत्क्षणमेव दृष्या समुत्थितः समुपखि. वानुगुणशकुनिद्विगुणितोद्यमश्चन्द्रमण्डलप्रभाप्रकटितेन वटस्थाणुतृण- गुल्मवल्मीकदावोल्मुकेन पूर्वावलोकितेनेव वर्मना विलक्याटवीम- विलेन भक्तिनिमजनमुखाराध्यमवन्ध्यप्रसादस्स ते पादपहजमूलमनु- मामः' इत्युक्त्वा विरराम । समरकेतुरप्युपजातपरमानन्दः प्रीतिनि- सन्देन चक्षुषा सुचिरमवलोक्य दत्त्वा च सक्षोमयुगलं सकलमकस्ट- मात्मीयभूषणगणम् 'परितोष, गच्छ खावासम् । आयासितोऽसि संततेनामुना वासतेयीप्रयाणेनेति व्याहृत्य तं लेखहारकं विस्सर्ज । निर्वर्तिलखानदेवतापूजब्ध पुनरुक्तवर्जितेन गत्वा प्रतीहारलोकेन सत्व-