त्पत्तिस्थितिनाशहेतुमायोपाधिकचैतन्यमित्यर्थः । एकाकी न रमते ततः पतिश्च पत्नी चाभवताम्' इति पुरुषविधब्राह्मणवचनात्, दंपत्योरैच्छिकभेदकत्वावगमेन परमार्थतः एतत्स्वरूपस्यैकचैतन्यरूपतावगमात्, तदुभयभोगस्यापि एकभोगत्वात् तद्वतीति वा ॥ ॐ एकभोगायै नमः ॥
एकरसा । एकः अभिन्नः रसः सामरस्यं यस्याः सा, 'रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतेः । एकः नवरसेषु मुख्यः शृङ्गाररसः यस्याः सा तथा । अथवा, एकेन परमेश्वरेण अस्यां क्रियमाणः प्रीत्यतिशयरूपः रसः एतद्विषयकः यस्याः सा । अथवा एकस्मिन्नेव स्वभर्तरि रसः निरतिशयप्रीतिः अनुरागसंज्ञा यस्याः सा । अथवा, षड्रसेषु मुख्यः मधुररसः प्रियत्वेन यस्याः सा, सत्त्वगुणप्रधानमायोपाधिकचैतन्यस्वरूपत्वात् । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः इति भगवद्वचनात् ॥ ॐ एकरसायै नमः ।।
एकैश्वर्यप्रदायिनी । ईष्टे प्रेरयति अन्तर्यामित्वेन सर्वाणीति ईश्वरः । 'यः सर्वेषु भूतेषु तिष्ठन्यः सर्वाणि भूतान्यन्तरो यमयति' इति श्रुतेः । तत्प्रेर्यमाणानां जीवानां भूतशब्दवाच्यानाम् अज्ञानतत्कार्यान्तःकरणोपहितप्रतिबिम्ब
पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२००
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
ललितात्रिशतीभाष्यम् ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/94/%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%B0%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BF_%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%28%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83%29.pdf/page200-806px-%E0%A4%B6%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%B0%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%B0%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BF_%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF_%28%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83%29.pdf.jpg)