पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
ललितात्रिशतीभाष्यम् ।

त्पत्तिस्थितिनाशहेतुमायोपाधिकचैतन्यमित्यर्थः । एकाकी न रमते ततः पतिश्च पत्नी चाभवताम्' इति पुरुषविधब्राह्मणवचनात्, दंपत्योरैच्छिकभेदकत्वावगमेन परमार्थतः एतत्स्वरूपस्यैकचैतन्यरूपतावगमात्, तदुभयभोगस्यापि एकभोगत्वात् तद्वतीति वा ॥ ॐ एकभोगायै नमः ॥
 एकरसा । एकः अभिन्नः रसः सामरस्यं यस्याः सा, 'रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतेः । एकः नवरसेषु मुख्यः शृङ्गाररसः यस्याः सा तथा । अथवा, एकेन परमेश्वरेण अस्यां क्रियमाणः प्रीत्यतिशयरूपः रसः एतद्विषयकः यस्याः सा । अथवा एकस्मिन्नेव स्वभर्तरि रसः निरतिशयप्रीतिः अनुरागसंज्ञा यस्याः सा । अथवा, षड्रसेषु मुख्यः मधुररसः प्रियत्वेन यस्याः सा, सत्त्वगुणप्रधानमायोपाधिकचैतन्यस्वरूपत्वात् । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः इति भगवद्वचनात् ॥ ॐ एकरसायै नमः ।।  एकैश्वर्यप्रदायिनी । ईष्टे प्रेरयति अन्तर्यामित्वेन सर्वाणीति ईश्वरः । 'यः सर्वेषु भूतेषु तिष्ठन्यः सर्वाणि भूतान्यन्तरो यमयति' इति श्रुतेः । तत्प्रेर्यमाणानां जीवानां भूतशब्दवाच्यानाम् अज्ञानतत्कार्यान्तःकरणोपहितप्रतिबिम्ब