सामग्री पर जाएँ

पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् इत्येवमुक्तः प्रणयेन तेन स्नेहाभिमानोन्मुखलोचनेन । तादृङ्निमित्तं सुगतश्चकार नाहार कृत्यं स यथा विवेद ॥१०॥ ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाच मतिं चकार । अनुग्रहार्थं सुगतस्तु तस्मै पात्रं ददौ पुष्करपत्रनेत्रः ॥११॥ ततः स लोके ददतः फलार्थं पाचस्य तस्थाप्रतिमस्य पात्रम् । जग्राह चापग्रहणक्षमाभ्यां पद्मोपमाभ्याम् प्रयतः कराभ्याम् ॥१२॥ पराङ्मुखन्त्वन्यमनस्कमारात् विज्ञाय नन्दः सुगतं गतास्थम् । हस्तस्वपानोऽपि गृहं यियासुः ससार मार्गात् मुनिमोक्षमाणः ॥१३॥ भाय्यानुरागेण यदा गृहं स पाचं गृहीत्वापि विवासुरेव । विमोहयामास मुनिस्ततस्तं रथ्यामुखस्यावरणेन तस्य ॥१४॥ निर्मा(?)क्षमौजी हि ददर्श तस्थ ज्ञानं मृदु() क्लेशरजश्व तीव्र(ः)म् । क्लेशाकुलान् तान्] विषयान् स तञ्च नन्दं यतस्तं मुनिराचकर्ष ॥१५॥ संक्लेशपक्षो विविधश्च दृष्टस्तथा विकल्पो व्यवदानपक्षः । आत्माश्रयो हेतबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य ॥१६॥ अयत्नतो हेतुबलाधिकस्तु निर्मुच्यते घट्टितमात्र एव । यत्नेन तु प्रत्ययनेयबुद्धिः विमोक्षमाप्नोति पराश्रयेण ॥१७॥ नन्दः स च प्रत्ययनेवचेता यं शिश्रिये तन्मयतामवाप । यस्मादिमं तत्र चकार यत्नं तत्रस्नेहपक्षान् मुनिरुचिौर्षम् ॥१८॥ १P. M. कारं वाधार। २P. M. निर्योक्षः। ३ P: M. प्रत्ययने प्रचेता T.