पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४८
काव्यमाला ।

तत्रैतदाशु धृतकज्जलबाष्पपातैः
प्रागक्षरार्पणविधेर्मलिनीचकार ॥ १४ ॥
किं किं परिभ्रमसि........... कुदले मे
पुष्पोज्झितेऽपि मधुपार्थितया तथैव ।
आनीय शंभुमिह स द्रुतमाप्तकामो
भूयादिति भ्रमरमाह शुचेव काचित् ॥ १५ ॥
दीर्घं मयैव कलजल्पितशिक्षणं ते
तद्दीक्षतामविरतस्य स एष कालः ।
कालान्तकाय कथया मम कामपीडा-
मित्यन्तरङ्गमपरा शुकमावभाषे ॥ १६ ॥
कण्ठावतंसकुसुमाश्रयणापदेशा-
त्कस्यैव कण्ठविवरं प्रतिपाद्य सद्यः ।
वार्ताहरो भव हराय ममैव काचि-
दात्मालकान्तिकचरं भ्रमरं बभाषे ॥ १७ ।।
स श्लेषदुःखशमनाय सरोरुहिण्याः
संध्या प्रयान्तमनुगम्य कठोरभासम् ।
आयास(सि) तेन न विनेति कथाप्रसङ्गा-
त्सख्युः पुरो विरहिणी वचनं जगाद ॥ १८ ॥
आहूय दौत्यगमनाभिमुखीं वयस्यां
संदेशमीशविषये बहु वक्तुकामा ।
तत्पार्श्वमेष्यसि यदीत्यसमाप्तितोक्ति-
र्बाष्पैिरवोचदपरा कथनीयशेषम् ।। १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीप्रेषणपद्धतिश्चतुत्रिंशत् ।

पञ्चत्रिंशी पद्धतिः ।

अस्मादृशामसुलभस्य विभोरशक्ये
दौत्ये पदे युवतिभिर्विनियोजितानाम् ।