पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ पद्धतिः]
१४७
भिक्षाटनकाव्यम्

मा गास्त्वमद्य हरसंनिधिमस्मदर्थे
प्राणासिका यदसि मे तदिहासितव्यम् ।
प्राणाः प्रयान्तु सुखमद्य ममेति काचि-
त्स्नेहोक्तिभिः प्रियसखीं त्वरयांचकार ॥ ८ ॥
न प्रेषिता प्रियसखी गिरिशस्य पार्श्वं
सा स्त्रीति शङ्कितधिया सुदृशा कयापि ।
मत्वा नपुंसकमिति प्रहितं मनोऽभू-
तच्चापि तत्र रमते किमयं विधत्ताम् ॥९॥
कृत्वाधरं रचितचिह्नमलक्तकेन
तस्याः कुचाग्रमपि कुङ्कुमकर्दमेन ।
काचिद्गभीरहृदया हरसंनिधानं
गन्तुं पुनः प्रियसखीं वनिता न्ययुक्त ॥ १० ॥
योऽपीदृशं वितनुते परकीयमिष्टं
तादृक्फलं स फल(लभ)ते पुनरित्यभिज्ञाम् ।
मामद्य योजय हरेण विधाय दौत्य-
मित्याजगाद विधुरा निशि चक्रवाकीम् ॥ ११ ॥
रागः शठो नियतमन्यतरानुरागः
स्वस्थः स एव पुरुषस्य निरङ्कुशस्य ।
मानग्रहो हि मरणाय वधूजनस्य
आचक्ष्व नाथमिति कापि जगाद दूतीम् ॥ १२ ॥
वार्ताहरीमनधिगम्य हरेः शुचान्या
तापोऽर्जिते स्तनतटेऽश्रुजलं मुमोच ।
तस्मै हृदि स्थितवते स्थित एतदीयां
वक्तुं प्रविष्टमितरन्नहि तत्र दृष्टिम् ॥ १३ ॥
संदेशमीशविषयं स्वयमेव काचि-
द्यम्मिन्विलेखितुमुपाक्रमताञ्चिताक्षी ।