काव्यमाला
यदा प्रहारैर्दलिताखिलाङ्गः खण्डोष्ठनासः स्फुटिताक्षिदन्तः ।
युवा पिशाचत्वमिवोपयाति तदापि रूपं विगतस्वरूपम् ॥ १२ ॥
यदा न धीमानरिषु प्रमाथी न वाक्पटुश्चित्रमनुष्यतुल्यः ।
तदा सुरूपादविचाररम्याद्वरं विरूपः स्पृहणीयरूपः ॥ १३ ॥
यदा दरिद्रः परिधानहीनस्त्रपानिलीनः कुरुतेऽतियाच्ञाम् ।
कपोलसंजातवलीविकारस्तदा सुरूपोऽपि परं विरूपः ॥ १४ ॥
विद्वत्संसदि वादिभिः कविवरैर्भाषानभिज्ञः परं
मूर्खः शंकरवाहनस्तुतिपदैर्यः संज्ञया हस्यते ।
विक्रीतः परदेशपण्यसदने धूर्तैरिवानुत्तरः
पुंसश्चित्रमयूरचारुवपुषः किं तस्य रूपश्रिया ॥ १५ ॥
कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तम् ।
रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥ १६ ॥
रूपं वयः शौर्यमनङ्गभोगं प्रज्ञाप्रभाव विभवं वपुश्च ।
अश्नाति कालभ्रमरः समन्तात्पुंसां हि किंजल्कमिवाम्बुजानाम्॥१७॥
कदाचित्सह गन्धर्वैः सभास्थाने शचीपतिम् ।
नृत्तेनाप्सरसः सर्वा गीतेन च सिषेविरे ॥ १८ ॥
तासां मध्ये बभौ कान्ता वृत्तीनामिव कैशिकी ।
उर्वशी खमुखे मैत्रीं वदन्तीवेन्दुपद्मयोः ॥ १९ ॥
शक्रसेवागतास्तत्र तां दृष्ट्वेन्दुमुखीं सुराः।
मेनिरे धन्यमात्मानं शृङ्गारस्याङ्गतां गतम् ॥ २० ॥
नृत्यन्ती सा बभौ हारमध्यरत्नेषु विम्बिता ।
युगपत्प्रविशन्तीव हृदयानि दिवौकसाम् ॥ २१ ॥
लीना देवविमानेषु हंसास्तद्गतिनिर्जिताः।
तत्कटाक्षजितश्चक्रे निद्रां चैन्द्रे मृगः क्षणम् ॥ २२ ॥
१. 'शंकरवाहनः' क. शंकरवाहनो वृषभः. २. 'मण्डनेन ख. ३. 'कौशिकी' क.
४. 'लज्जिताः' क.५, चन्द्रमृगः ख.