पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
सर्ववेदान्तसिद्धान्तसारसंग्रहा।


प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्मा यति सनातनम् ।।९९८॥
यावद्यावच्च सद्बुद्धे स्वय संत्यज्यतेऽखिलम् ।
तावत्तावत्परानंदः परमात्मैव शिष्यते ॥९९९।।
', यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा ।
परे ब्रह्मणि लीयेते न तस्योत्क्रातिरिष्यते ॥१००० ॥
यद्यस्वाभिमतं वस्तु तत्त्वजन्मोक्षमश्नुते ।
असकल्पेन शस्त्रेण छिन्न चित्तमिद यदा ॥१००१॥
सर्व सर्वगतं शांत ब्रह्मा सपद्यते तदा ।
इति श्रुत्वा गुरोर्वाक्य शिष्यस्तु छिन्नसंशयः ॥१००२।।
ज्ञातज्ञेयः सप्रणम्य सडरोश्चरणांबुजम् ।
स तेन समनुज्ञातो ययौ निर्मुक्तबधनः ॥१००३।।
गुरुरेष सदानदसिंधौ निर्मनमानसः ।
पावयन्वसुधां सर्वा विचचार निरुत्तरः ॥१००४।।
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।
निरूपित मुमुक्षूणां सुखबाधोपपत्तये ||१००५।।
सर्ववेदांतसिद्धांतसारसग्रहनामकः ।
ग्रथोऽयं हृदयग्राथिविच्छित्त्यै रचितः सताम् ||१००६||


इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृती सर्ववेदान्तसिद्वान्तसारसग्रहः संपूर्णः ।।