श्रान्तं स्वान्तं सबाह्यव्यवहृतिभिरिदं ताः समाकृष्य सर्वा-
स्तत्तत्संस्कारयुक्तं ह्युपरमति परावृत्तमिच्छन्निदानम् ।
स्वप्रान्संस्कारजातप्रजनितविषयान्स्वाप्रदेहेऽनुभूतान्
प्रोज्झ्यन्तः प्रत्यगात्मप्रवणमिदमगाद्भूरि विश्राममस्मिन् ॥ ७५ ॥
स्वप्रे भोगः सुखादेर्भवति ननु कुतः साधने मूर्छमाने
स्वाप्रं देहान्तरं तद्व्यवहृतिकुशलं नव्यमुत्पद्यते चेत् ।
तत्सामग्र्या अभावात्कुत इदमुदितं तद्धि सांकल्पिकं चेत्
तत्किं स्वाप्ने रतान्ते वपुषि निपतिते दृश्यते शुक्रमोक्षः ॥ ७६ ॥
भीत्या रोदित्यनेन प्रवदति हसति श्लाघते नूनमस्मात्
स्वप्नेऽप्यंगेऽनुबंधं त्यजति न सहसा मूर्च्छितेऽप्यन्तरात्मा ।
पूर्वं ये येऽनुभूतास्तनुयुवतिहयव्याघ्रदेशादयोऽर्था-
स्तत्संस्कारस्वरूपान्सृजति पुनरमूञ्श्र्चित्य संस्कारदेहम् ॥ ७७ ॥
सन्धौ जाग्रत्सुषुप्त्योरनुभवविदिता स्वाप्न्यवस्था द्वितीया
तत्रात्मज्योतिरास्ते पुरुष इह समाकृष्य सर्वेन्द्रियाणि ।
संवेश्य स्थूलदेहं समुचितशयने स्वीयभासाऽन्तरात्मा
पश्यन्संस्काररूपानभिमतविषयान्याति कुत्रापि तद्वत् ॥ ७८ ॥
रक्षन्प्राणैः कुलायं निजशयनगतं श्वासमात्रावशेषै-
-र्मा भूत्तत्प्रेतकल्पाकृतिकमिति पुनः सारमेयादिभक्ष्यम् |
स्वप्ने स्वीयप्रभावात्सृजति हयरथानिम्नगाः पल्वलानि
क्रीडास्थानान्यनेकान्यपि सुहृदबलापुत्रमित्रानुकारान् ॥ ७९ ॥
मातंगव्याघ्रदस्युद्विषदुरगकपीन्कुत्रचित्प्रेयसीभिः
क्रीडन्नास्ते हसन्वा विहरति कुहचिन्मृष्टमश्नाति चान्नम् ।
म्लेच्छत्वं प्राप्तवानस्म्यहमिति कुहचिच्छंकितः स्वीयलोका-
दास्ते व्याघ्रादिभीत्या प्रचलति कुहचिद्रोदिति ग्रस्यमानः ॥ ८० ॥
यो यो दृग्गोचरोऽर्थो भवति स स तदा तद्गतात्मस्वरूपा-