ऽविज्ञानोत्पद्यमानः स्फुरति ननु यथा शुक्तिकाऽज्ञानहेतुः ।
रौप्याभासो मृषैव स्फुरति च किरणज्ञानतोऽभो भुजङ्गो
रज्ज्वज्ञानान्निमेषं सुखभयकृदतो दृष्टिसृष्टं किलेदम् ॥ ८१ ॥
मायाऽध्यासाश्रयेण प्रविततमखिलं यन्मया तेन मत्स्था-
न्येतान्येतेषु नाहं यदपि हि रजतं भाति शुक्तौ न रौप्ये ।
शुक्त्यंशस्तेन भूतान्यपि मयि ने वसन्तीति विष्वग्विनेता
प्राहास्माद्दृश्यजातं सकलमपि मृषैवेन्द्रजालोपमेयम् ॥ ८२ ॥
हेतुः कर्मैव लोके सुखतदितरयोरेवमज्ञोऽविदित्वा
मित्रं वा शत्रुरित्थं व्यवहरति मृषा याज्ञवल्क्यार्तभागौ ।
यत्कर्मैवोचतुः प्राग्जनकनृपगृहे चक्रतुस्तत्प्रशंसां
वंशोत्तंसो यदूनामिति वदति न कोऽप्यत्र तिष्ठत्यकर्मा ॥ ८३ ॥
वृक्षच्छेदे कुठारः प्रभवति यदपि प्राणिनोद्यस्तथाऽपि
प्रायोऽन्नं तृप्तिहेतुस्तदपि निगदितं कारणं भोक्तृयत्नः ।
प्राचीनं कर्म तद्वद्विषमसमफलप्राप्तिहेतुस्तथाऽपि
स्वातन्त्र्यं नश्वरेऽस्मिन्न हि खलु घटते प्रेरकोऽस्यान्तरात्मा ॥ ८४ ॥
स्मृत्या लोकेषु वर्णाश्रमविहितमदो नित्यकाम्यादि कर्म ।
सर्वं ब्रह्मार्पणं स्यादिति निगमगिरः सगिरन्तेऽतिरम्यम् ।
यन्नासानेत्रजिह्वाकरचरणशिरः श्रोत्रसन्तर्पणेन
तुष्येदंगीव साक्षात्तरुरिव सकलो मूलसन्तर्पणेन ॥ ८५ ॥
यः प्रैत्यात्मानभिज्ञः श्रुतिविदपि तथाकर्मकृत्कर्मणोऽस्य
नाशः स्यादल्पभोगात्पुनरवतरणे दुःखभोगो महीयान् ।
आत्माभिज्ञस्य लिप्सोरपि भवति महान्शाश्वतः सिद्धिभोगो
ह्यात्मा तस्मादुपास्यः खलु तदधिगमे सर्वसौख्यान्यलिप्सोः ॥ ८६ ॥
सूर्याद्यैरर्थभानं न हि भवति पुनः केवलैर्नात्र चित्रं
सूर्यात्सूर्यप्रतीतिर्न भवति सहसा नापि चन्द्रस्य चन्द्रात् ।