महाभारतम्-05-उद्योगपर्व-194

विकिस्रोतः तः
← उद्योगपर्व-193 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-194
वेदव्यासः
उद्योगपर्व-195 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरेण चारमुखात् भीष्मादिभिः स्वस्वशक्तिप्रकाशनं निशम्य अर्जुनंप्रति तच्छक्तिनिवेदनचोदने तत्कथनम् ।। 1 ।।


वैशंपायन उवाच।

5-194-1x

एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे।
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ।।

5-194-1a
5-194-1b

युधिष्ठिर उवाच।

5-194-2x

धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम।
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ।।

5-194-2a
5-194-2b

दुर्योधनः किलापृच्छदापगेयं महाव्रतम् ।
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ।।

5-194-3a
5-194-3b

मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः।
तावता चापि कालेन द्रोणोपि प्रतिजज्ञिवान् ।।

5-194-4a
5-194-4b

गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् ।
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ।।

5-194-5a
5-194-5b

तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि ।
पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान् ।।

5-194-6a
5-194-6b

तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः।
कालेन कियता शत्रून्क्षपयेरिति फाल्गुन ।।

5-194-7a
5-194-7b

एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः ।
वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत ।।

5-194-8a
5-194-8b

सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः ।
असंशयं महाराज हन्युरेव न संशयः ।।

5-194-9a
5-194-9b

अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् ।
हन्यामेकरथेनैव वासुदेवसहायवान् ।।

5-194-10a
5-194-10b

सामरानपि लोकांस्त्रीन्सर्वान्स्थावरजङ्गमान् ।
भूतं भव्यं भविष्यं च निमेषादिति मे मतिः ।।

5-194-11a
5-194-11b

`यावदिच्छेद्धरिरयं तावदस्ति न चान्यथा।'
यत्तद्धोरं पशुपतिः प्रादादस्त्रं महन्मम।
कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते ।।

5-194-12a
5-194-12b
5-194-12c

यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् ।
प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ।।

5-194-13a
5-194-13b

तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः ।
न च द्रोणसुतो राजन्कुत एव तु सूतजः।।

5-194-14a
5-194-14b

न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् ।
आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ।।

5-194-15a
5-194-15b

तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव ।
सर्वे दिव्यास्त्रविद्वांसः सर्वे युद्धाभिकाङ्क्षिणः ।।

5-194-16a
5-194-16b

वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः ।
निहन्युः समरे सेनां देवानामपि पाण्डव ।।

5-194-17a
5-194-17b

शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः ।
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ।।

5-194-18a
5-194-18b

विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि।
शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः ।।

5-194-19a
5-194-19b

पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः ।
शैनेयश्च महाबाहुः सहायो रणकेविदः ।।

5-194-20a
5-194-20b

अभिमन्युश्च बलवान्द्रौपद्याः पञ्च चात्मजाः ।
स्वयं चापि समर्थोसि त्रेलोक्योत्सादनेपि च ।।

5-194-21a
5-194-21b

क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते।
स क्षिप्रं नभवेद्व्यक्तमिति त्वां वेद्मि कौरव ।।

5-194-22a
5-194-22b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यनपर्वणि
चतुर्नवत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-194-2 व्युषितां निशां प्रभातकाले ।।

उद्योगपर्व-193 पुटाग्रे अल्लिखितम्। उद्योगपर्व-195