मञ्चस्योपरिलम्वन्मदनीपुंनागमालिकाभरितम् ।
हरिगोपमयवितानं हरतादालस्यमनिशमस्माकम् ॥ १५० ॥
पर्यङ्कस्य भजामः पादान्बिम्बाम्बुदेन्दुहेमरुचः ।
अजहरिरुद्रेशमयाननलासुरमारुतेशकोणस्थान् ॥ १५१ ॥
फलकं सदा शिवमयं प्रणौमि सिन्दूररेणुकिरणामम् ।
आरभ्याङ्गेशीनां सदनात्कलितं च 1रत्नसोपानम् ॥ १५२ ॥
पट्टोपधानगण्डकचतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यकोपरि घटितं पातु चिरं हंसतूलशयनं नः ॥ १५३ ॥
तस्योपरि निवसन्तं तारुण्यश्रीनिषेवितं सततम् ।
आवृन्तफुल्लहल्लकमरीचिकापुञ्जमञ्जुलच्छायम् ॥ १५४ ॥
सिन्दूरशोणवसनं शीतांशुस्तबकचुम्बितकिरीटम् ।
2कुङ्कुमतिलकमनोहरकुटिलालिकहसितकुमुदबन्धुशिशुम् ॥ १५५ ॥
पूर्णेन्दुबिम्बवदनं फुल्लसरोजातलोचनत्रितयम् ।
तरलापाङ्गतरङ्गित3शफराङ्कनशास्त्रसंप्रदायार्थम् ॥ १५६ ॥
मणिमयकुण्डलपुष्यन्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधरविसृमरसस्मितकिशोरसंचारम् ॥ १५७ ॥
आमोदिकुसुमशेखरमानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभवीचीद्विगुणितवकारविन्दसौरभ्यम् ॥ १५८ ॥
पाशाङ्कुशेक्षुचापप्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपङ्किलाङ्गं कामेशं मनसि कुर्महे सततम् ॥ १५९ ॥
तस्याङ्कभुवि निषण्णां तरुणक4दम्बप्रसूनकिरणाभाम् ।
शीतांशुखण्डचूडां सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥ १६० ॥
कुङ्कुमललामभावन्निटिलां कुटिलतरचिल्लिका5युगलाम् ।
नालीकतु6ल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥ १६१ ॥
१ 'तत्तु' क. २. 'कस्तूरीतिलकमनोज्ञं कुटिलालकभरितकुमुद' क, ३. 'स्मराङ्गना- क.४.'तमाल' क. ५. 'झिलिका क.६. सदृश' क.