पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अङ्कुरितमन्दहासामरुणाधरकान्तिविजितबिम्बाभाम् ।
कस्तूरीमकरीयुतकपोलसंक्रान्तकनकताटङ्काम् ॥ १६२ ।।

कर्पूरसान्द्रवीटीकवलितवदनारविन्दकमनीयाम् ।
कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥ १६३ ॥

कह्वारदामकोमलभुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलसत्काञ्चनमयकटकवलयसंदोहाम् ॥ १६४ ॥

पाणिचतुष्टयविलसत्पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् ।
कूलंकषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ १६५ ॥

अणुदायादवलग्नामम्बुदशोभासनाभिरोमलताम् ।
माणिक्यखचितकाञ्चीमरीचिकाक्रान्तमांसलनितम्बाम् ॥ १६६॥

करभोरुकाण्डयुगलां जङ्घाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मो पल्लवसच्छायपदयुगमनोज्ञाम् ॥ १६७ ॥

कमलभवकञ्जलोचनकिरीटरत्नांशुरञ्जितपदाब्जाम् ।
उन्मस्तकानुकम्पामुत्तरलापाङ्गपोषितानङ्गाम् ॥ १६८ ॥

आदिमरसावलम्बामनिदंप्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननीमन्त: कलयामि सुन्दरीमनिशम् ।। १६९ ।।

कस्तु क्षितौ पटीयान्वस्तु स्तोतुं शिवाङ्कवास्तव्यम् ।
अस्तु चिरंतनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥१७०॥

प्रभुसंमितोक्तिगम्यं परमशिवोत्सङ्गतुङ्गपर्यङ्कम् ।
तेजः किंचन दिव्यं पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥ १७१ ॥

मधुरिमभरितशरासं मकरन्दस्पन्दिमार्गणोदारम् ।
कैरविणीविटचूडं कैवल्यायास्तु किंचन महो नः ॥ १७२ ॥

अक्षुद्रमिक्षुचापं परोक्षमवलग्नसीमनि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतरमुक्षरथप्रेमपक्ष्मलं तेजः ॥ १७३ ॥

भृङ्गरुचिसंगरकरापाङ्गं श्रृङ्गारतुङ्गमरुणाङ्गम् ।
मङ्गलसभङ्गुरं मे घटयतु गङ्गाधराङ्गसङ्गि महः ॥ १७४ ॥

१. 'कस्तूरिमकारकायुत' क.