पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४४
सौन्दर्यलहरी ।


हरक्रोधज्वालावलिभिरवलीढेन वपुषा
 गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
 जनस्तां जानीते तव जननि रोमावलिरिति ॥७६॥

यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे
 कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।
विमर्दादन्योन्यं कुचकलशयोरन्तरगतं
 तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥७७॥

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-
 कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
 बिलद्वारं सिद्धेगिरिशनयनानां विजयते ॥७८॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
 नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
 समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥७९॥