पुटमेतत् सुपुष्टितम्
१४३
सौन्दर्यलहरी।
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।
यदालोक्याशङ्काकुलितहृदयो हासजनक:
स्वकुम्भौ हेरम्ब: परिभृशति हस्तेन झडिति
॥ ७२ ॥
अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न संदेहस्पन्दो नगपतिपताके मनसि नः ।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ
॥ ७३ ॥
वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम ।
कुचाभोगो बिम्बाधररुचिभिरन्त: शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते
॥ ७४ ॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावार: परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य-
त्कवीनां प्रौढानामजनि कमनीयः कवयिता
॥ ७५ ॥