पुटमेतत् सुपुष्टितम्
२११
ललितात्रिशतीभाष्यम् ।
हकाररूपा हलधृक्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥
हकाररूपा । हकार रूप षष्ठावयव यस्या सा, मूलविद्यावाच्यार्थवाचक यस्या सा, तथा। ॐ हकाररूपायै नम॥
हलधृक्पूजिता । हल युग धरति इति हलधृक् बलराम, तेन पूजिता ध्यानादिभिराराधितेत्यर्थ ॥ ॐ हलधृक्पूजितायै नमः ॥
हरिणेक्षणा । हरिण्या एण्या ईक्षणमिव ईक्षण यस्या सा तथा, अतिसतोषेण कातराक्षीति भाव । सर्वत्र सर्वदा सर्वद्रष्ट्रीति वा । भक्तेष्वादरहेतुदर्शनवतीति भाव ॥ ॐ हरिणेक्षणायै नम ॥
हरप्रिया। हरस्य प्रिया शिववल्लभेत्यर्थ । हर प्रियो यस्या सा इति वा ॥ ॐ हरप्रियायै नमः ॥
इराराध्या । हरेण स्वभर्त्रा आराधितु योग्या, केवलसच्चिदानन्दस्वरूपत्वात् ।। ॐ हराराध्यायै नमः ॥
हरिब्रह्मेन्द्रवन्दिता। हरि रमेश । ब्रह्मा वाणीश।