पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
ललितात्रिशतीभाष्यम् ।

णया शुद्धस्वरूपपरमानन्दतया प्रेप्सितत्वात् श्रवणादिजन्यवृत्तिव्याप्यत्वरूपवेदनाविषयत्वम् । 'ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरितीर्यते' 'मामेव ये प्रपद्यन्ते मायामेताम्' इत्यादिवचनात् भगवताप्यङ्गीकृतमिति । ह्रींकारेण गुरुमुखोद्भूतेन वेद्या वेदितुं योग्या । तत्स्वरूपपरिज्ञानद्वारा तत्प्राप्तिरूपपुरुषार्थहेतुत्वादिति तात्पर्यम् ॥ ॐ ह्रींकारवेद्यायै नमः ॥
 ह्रींकारचिन्त्या । अस्य बीजस्य पञ्चप्रणवान्तर्गतत्वेन ॐकारभेदे ब्रह्मप्रतीकत्वाविशेषात् । प्रणवे यथा परापरब्रह्मोपासनहेतुवदस्मिन् वा प्रतीके तद्भवतीति विकल्पः । यदा भक्तिपार्थक्येन मन्त्रविशेषेषु भवतीति योगवेदमार्गरहस्यं न वादजल्पाद्यवकाशः । ह्रींकारे उभयविधब्रह्मस्वरूपतया चिन्तितुं योग्या । ध्यानस्य साक्षात्कारं प्रत्यारादुपकारकत्वेन ध्यातव्येत्यर्थः ॥ ॐ ह्रींकारचिन्त्यायै नमः ॥
 ह्रीं । हृञ् हरणे इति धातुपाठात् समस्तविद्यैश्वर्यप्रदानादिशक्त्यारोपाधिष्ठानत्वे सत्यपवादावशेषितपरमानन्दरूपमुक्तिरित्यर्थः ॥ ॐ ह्रीं नमः ॥
 ह्रींशरीरिणी । मूलमन्त्रात्मिकेति यावत् ह्रीमेव शरीरं मूर्तिरस्या अस्तीति ह्रींशरीरिणी ॥ ॐ ह्रींशरीरिण्यै नमः ॥