मूर्तिमयि मुक्तिबीजे मूर्ध्निस्तबकितचकोरसाम्राज्ये ।
मोदितकम्पाकूले मुहुर्मुहुर्मनसि मु[१]मुदिषास्माकम् ॥ ७३ ॥
वेदमयीं नादमयीं बिन्दुमयीं वरपदोघदिन्दुमयीम् ।
मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४॥
पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसपाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७५ ॥
कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलम्बनमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥
प्रत्यङ्मुख्या दृष्टया प्रसाईदीपाङ्कुरेण कामाक्ष्याः ।
पुश्वामि नि[२]स्तुलमहो पचेलिमं किमपि परशिवोल्लासम् ॥ ७७ ॥
विद्ये विधातृविषये कात्यायनि कालि कामकोटि कले।
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥ ७८ ॥
मालिनि महेशचारिणि काञ्चीखेलिनि विपक्षका[३] लिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कृपालिनि नमोऽस्तु ॥ ७९॥
देशिक [४] इति किं शङ्के: तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामानि शूलपाणेः कामागम[५] तन्त्रयज्ञदीक्षायाम् ॥ ८० ॥
वेतण्डकुम्भडश्चरवैतण्डिककुचभरार्तमध्याय ।
[६]र्कुङ्कुमरुचे नमस्या शंकरनयनामृताय रचयामः ॥ ८१ ॥
अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि कोचिदद्राक्षम् ।
अवनतजनानुकम्पामनुकम्पाकूलमस्सदनुकूलाम् ॥ ८२ ॥