पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
पञ्चशती


प्रेमवती कम्पायां स्वेम[१]वती यतिमनःसु भू[२]मवती
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥ ६२ ॥
कौतुकिना कम्पायां कौमुमचापेन कीलितेनान्तः
कुलदैवतेन महता [३]कुालमुद्रा धुनोतु नः प्रतिभा ॥ ६३ ॥
केनापि मिलेितदेहा यूना स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥
कुसुमशरगर्वसंपत्कोषगृहं भाति काश्चिमध्यगतम् ।
स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ ६५ ॥
दग्धषडध्वारण्यं दरदलितकुसुम्भसंभूतारुण्यम् ।
कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ॥
अधिकाञ्चि वर्षमानानतुलां करवाणि पारणामक्ष्णोः ।
आनन्दपाकभेदानरुणिमपरिणामगर्वपल्लवितान् ॥ ६७ ॥
बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाक मेदमाकलये ॥ ६८ ॥
किं वा फलति ममात्यैर्बिम्बाधरचुम्बिमन्दहासमुखीं
संबाधकरी समसामम्बा जागर्ति मनसि कामाक्षी ॥ ६९ ॥
मच्चे सदाशिवमये परशिवमयललितपौष्पपर्यङ्के
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥
लक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया।
श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१ ॥
लीये पुरहरजाये माये तब तरुणपल्लवच्छाये ।
चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥


  1. स्थैर्यवती.
  2. ऐश्वर्यवती.
  3. संकोचम्