पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विष्णुपादादिकेशान्तवर्णनस्तोत्रम् ।

वासेनाकुलान्यक्षाणीन्द्रियाणि येषां ते च ते त्रिदशरिपवस्तेषां वपूंषि तेषु शोणितं रुधिरं तस्यास्वादः पानं तेन हप्तो दीविष्टः । मधुमथनो मधुसूदनस्तस्य मनो नन्दयतीति नन्दनः। यस्य मूर्तियुद्धेषु झटिति शीघ्रं तडिदिव चपलगतिरालक्ष्यते । किंलक्षणा मूर्तिः । जीमूतश्यामभासा भगवतो बाहुना मुहुरुद्भूयमाना कम्प्यमाना । अपिशब्दान्मे. घान्तस्तडिदिव दैत्यदेहेषु प्रविश्यमानेति । अत एव मोहयन्ती । दैत्यानिति शेषः। अत्रानुक्तमपि चर्म सद्गसहचरं बोद्धव्यम् , अष्टायुधसहिताष्टबाहुयुक्तभगवन्मूर्तेः पुराणेषु प्रसिद्धखात् ॥

 कम्राकारा मुरारेः करकमलतलेनानुरागागृहीता
  सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।
 राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्दा
  कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥ ५॥

 एवंविशिष्टा सा कौमोदकी भगवद्गदा नोऽस्मभ्यं काममभीष्टं प्रदिशतु । किंलक्षणा । कम्रो मनोहर आकारो यस्याः सा । तथा मुरारेः करकमलतले नानुरागाद्गृहीता । नि मे- तार्थी पञ्चमी । सम्यग्वृत्ता वर्तुला । अग्रे भगवत्पुरतः स्थिता। परेषां शत्रूणां दर्शनं न सहते । सपदि सहसैव तानिर्भर्त्सयतीति शेषः । यद्वा सपदि कदापि परेषां दर्शनं न सहते । राजन्ती शोभमाना । दैत्यानां जीवो जीवनं स एवासवो मद्यं तदाखादकृत- मदेन हर्षेण मुदिता । तथा दैत्यदेहस्थलोहितकृतालेपनेनारागेणाी क्लिना । तथा दीप्तैरंशुभिः किरणैः कान्ता कमनीया। अस्य भगवतो दयितेव । कथं तदुच्यते- अनुरागाद्गृहीतेत्यन्तं यथाव्याख्यातमेव । वृत्तं चारित्रम् । परेषां परपुरुषाणाम् । लोहे- तचन्दनलेपनेनार्दा । दीप्त उज्ज्वलोऽशुकस्य वन्न स्याऽप्रभागो यस्याः सा ॥

 यो विधप्राणभूतस्तनुरपि च हरेर्यानकेतुखरूषो
  यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।
 चञ्चच्चण्डोस्तुण्डत्रुटितफणिवसारक्तपाकितास्य
  वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥ ६ ॥

 तं सुपर्ण गरुडं वन्दे । किंलक्षणम् । अमलं यत्स्वगं सुवर्ण तस्य वर्ण इव वी यस्य । खगाः पक्षिणस्तेषां पतिस्तम् । चञ्चद्देदीप्यमानं चण्डमतिकोपनमुरु महच यत्तुण्डं मुखं तेन त्रुटिताश्छिन्ना ये फणिनस्तेषां वसा रकं च तयोः पङ्कः कर्दमस्तेना- वितं लिप्तमास्यं मुखं यस्य । पुनः किंविशिष्टम् । छन्दोमयम् । यो विश्वप्राणभूतः । सर्वप्राणेभ्यो भूत उद्भूतः । एकीभूतसकलप्राणिबलमूर्तिरित्यर्थः । अपि च हरेस्तनुर्मूर्त्य- न्तरम् । तथा तस्यैव यानकेतुखरूपः । वाहनरूपो ध्वजरूपश्चेत्यर्थः । यं संचिन्यैव, न तु दृष्ट्वा, सद्य उरगवधूवर्गस्य सर्पस्त्रीसमूहस्य गर्भा जठरान्तःस्थिता अपि नागसंतानाः खयं पतन्ति ।