पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। विष्णोविश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः । पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ ७ ॥ सोऽनन्तोऽनन्तनामा भोगीश्वरो नागकुलपतिनोंऽस्मान्सकलविषभयात्पातु । विश्वे- श्वरस्य विष्णोः प्रवरं श्रेष्ठं यच्छयनं शय्या तत्करोतीति । अत एव सर्वलोकैकधर्ता । खान्तःस्थितसकलजगतः परमात्मनो धारयितेत्यर्थः । सृष्टिकाले सर्वभूतमुत्पन्नमस्सा- दिति सर्वभूतः । अत एव पृथु महद्विमलं पावयित यशो यस्य । सर्ववेदैः । वेद इत्युप- लक्षणम् । इतिहासपुराणादिभिरपि वेद्य इत्यर्थः । जगस्थितिकाले विश्वस्य पाता पाल- यिता । शश्वत्सदा । सकलसुररिपुध्वंसनः । अखिलधर्मप्रतिपक्षध्वंसन इत्यर्थः । नति- नुतिस्मरणादिभिः सर्वजनानां पापहन्ता । सर्वज्ञः । सर्वसाक्षी । अनन्तस्य विष्णोरवता- रखेन वर्णितत्वात्सर्वाणि विशेषणानि युक्तानि ॥ वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्याः कटाक्षः सकृदपि पतितैः संपदः स्युः समग्राः । कुन्देन्दुस्खच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गीं वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥ ८॥ तामिन्दिरां लक्ष्मी वन्दे । किंलक्षणाम् । मुरभिदो नारायणस्योरो वक्षो मन्दिर गृहं यस्याः । अशेषैः समस्तैर्वन्या । सुन्दराण्यमानि यस्याः । कुन्दः कुसुमविशेषः, इन्दुश्चन्द्रः । कुन्देन्दू इव खच्छं शुभ्रं मन्दमल्पं च तत्स्मितं तेन मधुरं मनोहरं मुखा- म्भोरुहं यस्याः । यां मुनयो व्यासादयो वाक्सरस्वती, भूपरित्री, गौरी पार्वती । आदि- पदाद्विद्यादीनां ग्रहणम् । तै दैर्विदुः । पुनः किंलक्षणाम् । यदीयैः कारुण्याः कृपा- परवशैः कटाक्षः सकृदेकवारमपि पतितैः पुंसां समप्राः संपूर्णाः संपदः स्युः । ताम् ॥ या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् । धात्री स्थात्री जनित्री प्रकृतिमविकृति विश्वशक्तिं विधात्री विष्णोविश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥ ९ ॥ विश्वात्मनो विष्णोः प्राणनाथां प्रकृति तां प्रणौमि प्रकर्षेण स्तौमि । विश्वस्थामा तस्य । विश्वाधिष्ठानस्येत्यर्थः । प्राणनाथां प्राणप्रियात् । भार्यामिति यावत् । प्रक्रियते प्रसूयते सर्वमस्या इति प्रकृति निमतामुपादानम् । किंलक्षणम् । विकृतिर्विकारः । न विकृतिरविकृतिस्ताम् । अनादिमित्यर्थः । विश्वस्मिन्प्रपञ्चे शक्तिरुत्पादनसामर्थ्य यस्याः ।