पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
प्रौढानुभूतिः॥


॥प्रौढानुभूतिः।।

प्रौढप्रौढनिजानुभूतिगलितद्वैतेद्रजालो गुरु-
 र्गूढ गूढमघौघदुष्टकुधियां स्पष्ट सुधीशालिनाम् ।
स्वांते सम्पगिहानुभूतमपि सच्छिष्यावबोधाय तत्
 सत्य सस्मृतवान्समस्तजगता नैज निजालोकनात् ॥ १ ॥
द्वैत मय्यखिल समुत्थितमिद मिथ्या मनःकल्पित
 तोय तोयविवर्जिते मरुतले भ्रांत्यैव सिद्धं न हि ॥
यद्येव खलु दृश्यमेतदखिल नाह न वा तन्मम
 प्रौढानंदचिदेकसन्मयवपुः शुद्धोऽस्म्यखडोऽस्म्यहम् ॥ २ ॥
देहो नाहमचेतनोऽयमनिश कुडयादिवन्निश्चितो
 नाह प्राणमयोऽपि वा दृतिधृतो वायुर्यथा निश्चितः
सोऽह नापि मनोमयः कपिचलः कार्पण्यदुष्टो न वा
 बुद्धिर्बुद्धकुवृत्तिकेव कुहना नाज्ञानमधतम ॥ ३ ॥
नाह खादिरपि स्फुट मरुतलभ्राजत्पयः साम्यत-
 स्तेभ्यो नित्यविलक्षणोऽखिदृशिः सौरप्रकाशो यथा
दृश्यैः संगविवर्जितो गगनवत्सपूर्णरूपोऽस्म्यह
 वस्तुस्थित्यनुरोधतस्त्वहमिद वीच्यादि सिंधुर्यथा ॥ ४ ॥
निर्द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यह
 निर्देहोऽस्मि निरिंद्रियोऽस्मि नितरां निष्प्राणवर्गोऽस्म्यहम् ।
निर्मुक्ताशुभमानसोऽस्मि विगलद्विज्ञानकोशोऽस्म्यह
 निर्मायोऽस्मि निरंतरोऽस्मि विपुलप्रौढप्रकाशोऽस्म्यहम् ॥ ५ ॥
मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृपा
 गुजावह्निवदेव सर्वकलनाधिष्ठानभूतोऽस्म्यहम् ॥
सर्वस्यापि, दृगस्म्यह समरसः शातोऽस्म्यपापोऽस्म्यहं