अथर्ववेदः/काण्डं १९/सूक्तम् ४८

विकिस्रोतः तः
← सूक्तं १९.४७ अथर्ववेदः - काण्डं १९
सूक्तं १९.४८
गोपथः
सूक्तं १९.४९ →
दे. रात्रिः। अनुष्टुप्, - - - -

अथो यानि च यस्मा ह यानि चान्तः परीणहि ।
तानि ते परि दद्मसि ॥१॥
रात्रि मातरुषसे नः परि देहि ।
उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥
यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।
यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥
सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत ।
गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥
ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।
पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥
वेद वै रात्रि ते नाम घृताची नाम वा असि ।
तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥