कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २५

विकिस्रोतः तः
← पटलः २४ द्राह्यायणश्रौतसूत्रम्
पटलः २५
द्राह्यायणः
पटलः २६ →

25.1 पञ्चविंशः पटलः । प्रथमः खण्डः
राजा राजसूयेन यजेत १ फाल्गुनी पक्षस्य प्रथमायां दीक्षेताभ्यारोहणीयाय ज्योतिष्टोमाय २ तस्यैका दीक्षा द्वादशशतं दक्षिणाः ३ संवत्सरादूर्ध्वमभिषेचनीयेन यजेत ४ तस्य तथैव दीक्षा । द्वे इति गौतमः ५ तथा सत्यभ्यारोहणीयस्यापि द्वे ६ एकाभ्यारोहणीयस्य तिस्रोऽभिषेचनीयस्येति शाण्डिल्यः ७ त्रयोदश्यां त्वपरपक्षस्य दीक्षेत ८ तस्य दक्षिणा द्वात्रिंशतं सहस्राणि मध्यतःकारिभ्यो दद्यादेकैकस्मै ९ षोडश प्रस्तोतृमैत्रावरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिभ्यस्ता अर्धिेकन्यः १० अष्टौ प्रतिहर्तृ पोतृनेष्ट्रच्छावाकेभ्यस्तास्तृतीयिन्यः ११ चत्वारि सुब्रह्मण्याग्नीध्रोन्नेतृग्रावस्तुद्भ्यस्ताः पादिन्यः १२ अबलानस्य ज्ञातीन्सवित्तानावहेयुस्ताञ्जिनीयाद्दक्षिणावेलायाम् १३ इषूंश्चैभ्योऽस्येत् १४ तांस्त एव प्रत्याहरेयुर्विजयस्व राजन्निति १५ तेषां वित्तस्य तृतीयमृत्विग्भ्यो दद्यात् १६ दशपेयेऽनुप्रसर्पिभ्यस्तृतीयम् १७ शेषं तेभ्य एव प्रत्युत्सृजेत् १८ ग्रामानेभ्योऽपि दद्यात् १६ राजन्यास्ते स्युस्तत ऊर्ध्वमनभिषेक्याः २० तेनेष्ट्वा न साक्षादवभृथमभ्यवेयात् । कृष्णविषाणं कृष्णाजिनपादं वा निदध्यात् २१ वाराहीभ्यामित उपानद्भ्यां व्रजेत्कार्ष्णीभ्यां प्रत्याव्रजेत् २२
इति द्राह्यायणश्रौतसूत्रे पञ्चविंशे पटले प्रथमः खण्डः

25.2 द्वितीयः खण्डः
तद्दीक्षित एव दशाहे ततो दशपेयेन यजेत १ तस्य ब्राह्मणं दश दश चमसमभियन्तीति ब्रह्मण्यचतुर्था उद्गातृचमसं भक्षयेयुः षट्सु चान्ये २ एवमितरेषामेकैकं यावता दश पूर्येरन्यजमान चमसादन्यान् ३ ते दश मातॄर्दश पितॄनित्यन्वाख्याय प्रसर्पेयुरादशमात्पुरुषादिति ह्याह ४ यत्राब्राह्मणीमधिगच्छेयुर्ब्राह्मण्येवाभ्यासं दश तं पूरयेयुः ५ अस्मरन्तश्च यतः स्मरेयुः ६ ऋत्विग्भिः सह धिष्ण्यानुपतिष्ठेरन् ७ स्रगुद्गातुरिति स्रप्स्यतेऽस्मै बहिष्पवमानं हिरण्यस्रजं त्रिपुष्करां प्रतिमुञ्चेत् ८ आस्ताव उपविष्टाय यजमान औदकीं द्वादशपुष्करां यास्य स्वा स्यात् ९ स्तुते बहिष्पवमाने यजमानायैवौदकीं प्रत्युत्सृजेत् १० इतरया प्रतिमुक्त्या सर्वमहः कुर्वीत ११ तां स एवाहरेत् १२ प्राकाशावध्वर्य्वोरिति सौवर्णोऽध्वर्योर्दक्षिणतः स्याद्राजतः प्रतिप्रस्थातुः सव्यतः १३ वासः पोतुरिति कार्पासं स्यात् १४ वरासी नेष्टुरिति क्षौमी स्यात् १५ ब्राह्मणेनैवेतरा विज्ञाताः १६ तस्यावभृथादुदेत्य संवत्सरं देवव्रतं चरेत् १७ उन्मृन्नीतानाप्लवमानः १८ धावेत दन्तान्निकृन्तयेन्नखानि श्मश्रूणि वापयेत न केशान् १९ वैयाघ्रे चर्मण्युत्तरलोम्य्ेग्न्यगारे संविशेत् २० अहरहः समिध आदध्यात् २१ नानु ग्रामं प्रविशेत् २४ नास्याब्राह्मणा राष्ट्रे वापयेरन् २३ आश्वानां च न केशांश्छिन्द्युः २४ न तेजनीदन्तान् २५ न प्रस्रवणानि २६ ब्राह्मणास्तु यथाभिप्रेतं ये च ताननु स्युः २७
इति द्राह्यायणश्रौतसूत्रे पञ्चविंशे पटले द्वितीयः खण्डः २

25.3 तृतीयः खण्डः
संवत्सरादूर्ध्वं केशवपनीयाय दीक्षेत । यस्मिन् कालेऽभिषेचनीयेन यजेत १ तस्य पौर्णमास्यामतिरात्रः २ दशपेयेनेष्ट्वा य उत्तरः पूर्वपक्षस्तस्मिन्नेव केशवपनीयेन यजेतेति धानंजय्यः ३ पौर्णमास्यां चैवातिरात्रः ४ तस्य सहस्रं दक्षिणाः ५ तस्योदवसानीययेष्ट्वा पौर्णमासेन व्यष्टिद्विरात्राय दीक्षेतामावास्यायां पूर्वमहरिति चेच्चिकीर्षेत् ६ पौर्णमास्यामिति चेत्पूर्वपक्ष एव दीक्षेत ७ उभयोर्विचारयोर्यजनीय उत्तरमहः ८ व्यष्टकायामुत्तरमिति तामिस्रप्रथमास्तिस्रो व्यष्टका इत्याचक्षते ६ उभे एव पूर्वपक्षे स्यातां ये एव समानपक्ष इति ह्याह १० पूर्वेणैव दक्षिणा व्याख्याताः ११ तस्मिन्नेव पूर्वपक्षे क्षत्रस्य धृतिना यजेतावकाशश्चेत् स्यात् १२ अविद्यमाने य उत्तरः पूर्वपक्षस्तस्मिन् १३ सोऽभ्यारोहणीयेन व्याख्यातः १४ तयोः पृथक्सहस्रे दक्षिणा इति गौतमधानंजय्यौ १५ द्वे च सहस्रे केशवपनीये १६ तथा व्युष्टौ १७ चत्वार्यभिषेचनीये गौतमः पञ्च धानंजय्यः १८ नित्यं त्वबलानां ज्ञातीनां वित्तम १९ राज्येकविंशतिवर्गान्यथोत्साहं दद्याद् २० ऐन्द्रेण त्वृषभेण पुरस्तादुपरिष्टाच्च परियजेत २१ राजा राज्यमिच्छन्नेतेन यजेत २२ विराजि दश वर्गान्यथोत्साहं दद्याद् २३ आग्नेयेन तु पशुना पुरस्तादुपरिष्टाच्च परियजेत २४ वैश्वदेवेनौपशदे २५ तस्य चतुर्विंशशतं दक्षिणाः २६ पूर्वे वयस्युच्चावचान्याजयित्वोपनीय वा तेभ्यः समावर्त्स्यन् पुनःस्तोमेन यजेत २७ तस्य द्वादशमिथुना दक्षिणा इति धानंजय्यः २८ पुनः संस्कृतो रथः पुनरुत्स्यूतं शामूलं पुनर्धेनुः पुनर्वत्स इति शाण्डिल्यः २९ एतेषां यथोत्साहं दद्यात् ३० चतुष्टोमयोरेकशफाना पूर्वस्मिन्यथोत्साहं दद्यात् ३१ उभयेषामुत्तरस्मिन् ३२
इति द्राह्यायणश्रौतसूत्रे पञ्चविंशे पटले तृतीयः खण्डः ३

25.4 चतुर्थः खण्डः
उद्भिद्बलभिद्भ्यामविप्रयोगेण यजेत १ तावुभौ सप्तापवर्गौ स्याताम् २ वसन्ते चार्द्धमास एनावन्तरेण स्यात् ३ मासः संवत्सरो वा ४ तत्रेषुरिष्टिः ५ तयोः पृथक् चतुर्युजावश्वरथावपचित्योरुभयतः कांस्यकवचौ ७ शतार्हाः स्युरश्वाः शतक्रियो वा ८ राजैताभ्यां यजेतेति शाण्डिल्यः ६ यः कश्चापचितिकाम इति धानंजय्यः १० ऐकाहिकेन व्रतेनोक्त उपायोऽग्नेः स्तोमयोः ११ तयोः पृथक्चत्वारि धान्याचितानि दक्षिणाः १२ षड्गवानि पूर्वे चतुर्गवाण्युत्तरस्मिन् १३ ऋषभाणां द्वादशशतं दक्षिणाः सहस्रं वर्षभे १४ अविद्यमानेषु कतिचिद् अप्यृषभाः स्युः साण्डा इतरे वत्सतराः १५ वैश्यं यं विशः सराजानः पुरस्कुर्वीरन् स गोसवेन यजेत । स बृहस्पतिसवेन व्याख्यातः १६ अयुतं त्वस्य दक्षिणाः १७ सखायो भ्रातरो वा ये सम्पादयेयुस्ते मरुत्स्तोमेन यजेरन् १८ तस्य दक्षिणा यथारूपाः पञ्चशारदीये प्रशव आलभ्यन्ते । तेषां यथोत्साहं दद्युः १९ येषां केषां चेति धानंजय्यः २० कुलदक्षिण इन्द्राग्न्योः कुलायः २१ सहस्रमिन्द्रस्तोमे २२ राजपुरोहितौ यजेयातामिन्द्राग्न्योः स्तोमेन २३ गायत्रीसंपन्ना दक्षिणा ब्राह्मणो दद्याज्जगती संपन्ना राजा २४ कामं तु पृथग्यजेयाताम् २५ तयोरेवमेव दक्षिणाः २६ विघनाभ्यां पशुकामो यजेताभिचरन्वा २७ सोमसामाथर्वणं वेत्याथर्वणं पशुकामस्य यज्ञे कुर्यात् सोमसामाभिचरतः २८ बृहतीसंपन्ना दक्षिणाः पशुकामस्य २९ इषुणाभिचरतो व्याख्यातौ ३० संदंशवज्रौ च ३१ राजानं संदंशेनाभिचरेज्जनपदं वज्रेण ३२ राजानमभिचरन्व्यत्यासमेनौ प्रयुञ्जीत ३३ ज्योतिष्टोमेनैवान्ततो यजेत शान्त्यर्थः शान्त्यर्थः ३४
इति द्राह्यायणश्रौतसूत्रे पञ्चविंशे पटले चतुर्थः खण्डः ४