महाभारतम्-05-उद्योगपर्व-126

विकिस्रोतः तः
← उद्योगपर्व-125 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-126
वेदव्यासः
उद्योगपर्व-127 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पुनर्भीष्मद्रोणाभ्यां दुर्योधनंप्रति परेषां युद्धसंनाहात्पूर्वमेव तैःसह शमविधानम् ।। 1 ।।


वैशंपायन उवाच।

5-126-1x

धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ।।

5-126-1a
5-126-1b

यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् ।
यावद्धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम् ।।

5-126-2a
5-126-2b

यावन्न प्रेक्षते क्रूद्धः सेनां तव युधिष्ठिरः।
ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम् ।।

5-126-3a
5-126-3b

यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः।
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ।।

5-126-4a
5-126-4b

यावन्न चरते मार्गान्पृतनामभिधर्षयन् ।
भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः ।।

5-126-5a
5-126-5b

यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ।
गदया वीरघातिन्या फलानीव वनस्पतेः ।
कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ।।

5-126-6a
5-126-6b
5-126-6c

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।।
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ।।

5-126-7a
5-126-7b

यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् ।
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ।।

5-126-8a
5-126-8b

यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्।
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ।।

5-126-9a
5-126-9b

चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च ।
नोरस्सु यावद्योधानां महेष्वासैर्महेषवः ।।

5-126-10a
5-126-10b

कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः ।
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ।।

5-126-11a
5-126-11b

अभिवादयमानं त्वां शिरसा राजकुञ्जरः ।
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ।।

5-126-12a
5-126-12b

ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः ।
स्कन्धे निक्षिपतां बहुं शान्तये भरतर्षभ ।।

5-126-13a
5-126-13b

रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च।
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ।।

5-126-14a
5-126-14b

शालस्कन्धो महाबहुस्त्वां स्वजानो वृकोदरः ।
साम्नाऽभिवदतां चापि शान्तये भरतर्षभ ।।

5-126-15a
5-126-15b

अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः।
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाऽभिवद पार्थिव ।।

5-126-16a
5-126-16b

दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् ।
यावदानन्दजाश्रूणि प्रन्मुञ्चन्तु नराधिपाः ।।

5-126-17a
5-126-17b

घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् ।
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ।।

5-126-18a
5-126-18b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
षड्विंशत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-126-2 मेधाग्नौ संग्रामाग्नौ । मेघो यज्ञः ।। 5-126-3 वैशसं वैरम् ।।

उद्योगपर्व-125 पुटाग्रे अल्लिखितम्। उद्योगपर्व-127