महाभारतम्-05-उद्योगपर्व-119

विकिस्रोतः तः
← उद्योगपर्व-118 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-119
वेदव्यासः
उद्योगपर्व-120 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

गालवेन गरुडंप्रत्यश्वानां शतद्वयन्यूनताकथनम् ।। 1 ।।
गरुडेन तस्य दुर्लभत्वकथनपूर्वकं तत्प्रतिनिधितया माधव्या एव दानकथनम् ।। 2 ।।
विश्वामित्रेण गालवदत्तायां माधव्यां अष्टकाख्यपुत्रमुत्पाद्य तस्याः पुनर्गालवे पुनर्गालवे प्रत्यर्पणम् ।। 3 ।।
गालवेन पुनर्ययातये माधवीप्रत्यर्पणम् ।। 4 ।।

नारद उवाच।

5-119-1x

गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत्।
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ।।

5-119-1a
5-119-1b

गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् ।
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ।।

5-119-2a
5-119-2b

सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः।
प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव ।।

5-119-3a
5-119-3b

पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम्।
भार्यार्थे वरयत्कन्यामृचीकस्तेन भाषितः।।

5-119-4a
5-119-4b

एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
भगवन्दीयतां मह्यं सहस्रमिति गालव ।।

5-119-5a
5-119-5b

ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः।
अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै ।।

5-119-6a
5-119-6b

इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु।
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा ।।

5-119-7a
5-119-7b

अपराण्यपि चत्वारि शतानि द्विजसत्तम ।
नीयमानानि संतारे हृतान्यासन्नितस्ततः।।

5-119-8a
5-119-8b

एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ।
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय ।।

5-119-9a
5-119-9b

विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह।
ततोऽसि गतसंमोहः कृतकृत्यो द्विजोत्तम ।।

5-119-10a
5-119-10b

गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः ।
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ।।

5-119-11a
5-119-11b

अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै ।
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ।।

5-119-12a
5-119-12b

अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः ।
चतुर्थं जनयत्वेकं भवानपि नरोत्तमम् ।।

5-119-13a
5-119-13b

पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते।
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ।।

5-119-14a
5-119-14b

विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा।
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ।।

5-119-15a
5-119-15b

किमियं पूर्वमेवेह न दत्ता मम गालव।
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ।।

5-119-16a
5-119-16b

प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै ।
अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः ।।

5-119-17a
5-119-17b

नारद उवाच।

5-119-18x

स तया रममाणोऽथ विश्वामित्रो महाद्युतिः ।
आत्मजं जनयामास माधवीपुत्रमष्टकम् ।।

5-119-18a
5-119-18b

जातमात्रं सुतं तं च विश्वामित्रो महामुनिः ।
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ।।

5-119-19a
5-119-19b

अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् ।
निर्यात्य कन्यां शिष्याय कौशिकोपि वनं ययौ ।।

5-119-20a
5-119-20b

गालवोपि सुपर्णेन सह निर्यात्य दक्षिणाम्।
मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह ।।

5-119-21a
5-119-21b

जातो दानपतिः पुत्रस्त्वया शूरस्तथाऽपरः।
सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः ।।

5-119-22a
5-119-22b

तदागच्छ वरारोहे तारितस्ते पिता सुतैः ।
चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे ।।

5-119-23a
5-119-23b

नारद उवाच।

5-119-24x

गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् ।
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ।।

5-119-24a
5-119-24b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवाद्यनपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-119-8 संतारे मार्गे ।। 5-119-18 अष्टकं तन्नामकम् ।। 5-119-20 निर्यात्य प्रत्यर्प्य । शिष्याय गालवाय ।।

उद्योगपर्व-118 पुटाग्रे अल्लिखितम्। उद्योगपर्व-120