पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ मनुस्मृतिः। [अध्यायः ६ न फाल इति ॥ अरण्येपि फालकृष्टप्रदेशे जातं स्वामिनोपेक्षितमपि ब्रीह्यादि नाद्यात् । तथा ग्रामजातान्यफालाकृष्टभूभागेऽपि लतावृक्षमूलफलानि क्षुत्पी- डितोऽपि न भक्षयेत् ॥ १६ ॥ अग्निपक्काशनो वा स्यात्कालपक्क गेव वा । अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा ॥ १७ ॥ अनीति ॥ अग्निपकं वन्यमन्नं कालपक्वं वा फलादि । यद्वा नोलूखलमुसलाभ्यां किंतु पाषाणेन चूर्णीकृत्यापक्वमेवाद्यात् । दन्ता एवोलूखलस्थानानि यस्य तथा- विधो वा भवेत् ॥ १७ ॥ सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपिवा । षण्मासनिचयो वा स्यात्समानिचय एव वा ॥ १८ ॥ सद्य इत्यादि ॥ एकाहमात्रजीवनोचितं मासवृत्युपचितं वा षण्माससंवत्सरनि- चाहसमर्थं वा नीवारादिकं संचिनुयात् । यथापूर्व नियमातिशयः । मासवृत्तियो- ग्यसंचयो माससंचयः सोऽस्यास्तीति 'अत इनिठनौ' इति उन्प्रत्ययेन माससंत्र- यिक इति रूपम् ॥ १८ ॥ नक्तं चान्नं समश्नीयादिवा वाहत्य शक्तितः। चतुर्थकालिको वा सात्स्याद्वाप्यष्टमकालिकः ॥ १९ ॥ नक्रमित्यादि ॥ यथासामर्थ्यमन्नमाहृत्य प्रदोषे भुञ्जीत । अहन्येव वा चतुर्थका- लाशनो वा स्यात् । 'सायंप्रातर्मनुष्याणामशनं देवनिर्मितम्' इति विहितं तत्रैक- स्मिन्नहन्युपोप्यापरेयुः सायं भुञ्जीत । अष्टमकालिको वा भवेत् । त्रिरात्रमुपोष्य चतुर्थस्याह्वो रात्रौ भुञ्जीत ॥ १९ ॥ चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् । पक्षान्तयोर्वाप्यश्नीयाद्यवागू कथितां सकृत् ॥ २० ॥ चान्द्रायणेति ॥ शुक्लकृष्णयोः 'एकैकं ह्रासयेत्पिण्डं शुक्ले कृष्णे च वर्धयेत्' इत्यादिनैकादशाध्याये च वक्ष्यमाणैश्चान्द्रायणैर्वा वर्तयेत् । पक्षान्तौ पौर्णमास्यमा- वास्ये तत्र शृतां यवगू वाप्यश्नीयात् । सकृदिति सायं प्राता ॥ २० ॥ पुष्पमूलफलैर्वापि केवलैर्वतयेत्सदा । कालपकैः स्वयंशीणैवैखानसमते स्थितः ॥२१॥ चुप्पमूलेत्यादि ॥ पुष्पमूलफलैरेव वा कालपक्कैः नाग्निपक्कै स्वयंपतितीवेत् । वैखानसो वानप्रस्थः तद्धर्मप्रतिपादकशास्त्रदर्शने स्थितः । तेनैतदुक्तमन्यदपि वै. खानसशास्त्रोक्तं धर्ममनुतिष्ठेत् ॥ २१ ॥ भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः ॥ २२ ॥