पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २१५ भूमावित्यादि ॥ केवलायां भूमौ लुठन्गतागतानि कुर्यात् । स्थानासनादावुर- विशेत् । उत्तिष्ठेत्पर्यटेदित्यर्थः । आवश्यकं स्नानभोजनादिकालं विहाय चायं नियमः । एवमुत्तरत्रापि, पाटाग्राभ्यां वा दिनं निष्ठेत्कंचित्कालं स्थित एव स्यात् कंचिच्चोपविष्ट एव न त्वन्तरा पर्यटेत् । सबनेपु सायंप्रातमध्याह्नपु स्त्रायात् । यत्तु सायं प्रगे तथेत्युक्तं तेन सहास्य नियमातिशयापक्षो विकल्पः ॥ २२ ॥ ग्रीष्मे पञ्चतपास्तु स्याद्वांस्वभावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ २३ ॥ ग्रीष्म इत्यादि ॥ आत्मतपोविवृद्ध्यथै ग्रीप्से चतुर्दिगवस्थितैरग्निभिरूच चाढ़ि- त्यतेजसात्मानं तापयेत् । वर्षास्वभावकाशमाश्रयेत् । यत्र देशे देवो वर्पति तत्र छत्राद्यावरणरहितस्तिष्ठेदित्यर्थः । हेमन्ते चावासा भवेत् । ऋतुत्रयसंवत्सरा- बलम्बनायं सांवत्सरिक एव नियमः ॥ २३ ॥ उपस्पृशंस्विषवणं पितॄन्देवांश्च तर्पयेत् । तपश्चरंश्चोग्रतरं शोषयेदेहमात्मनः॥ २४ ॥ उपेति ॥ विहितमपि त्रिपवणं स्नानं देवर्पिपितृतर्पणविधानार्थमनूद्यते । प्रात- मध्यंदिनं सायं सवनेषु निष्वपि देवपिपितृतर्पण कुर्वन् । अन्यदपि पक्षमासोपवा- सादिकं नीवव्रतं तपोऽनुतिष्टन्यथोक्तं यमेन 'पक्षोपवासिनः केचित्केचिन्मासो- पवासिनः' इति स्वशरीरं शोपयेत् ॥ २४ ॥ अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ॥२५॥ अग्नीनित्यादि ॥ श्रौताननीन्यैखानसशास्त्रविधानेन भस्मपानादिना आत्मनि समारोप्य लौकिकाग्निगृहशून्यः। यथा वक्ष्यति 'वृक्षमूलनिकेतनः' इति । मु- निमौनव्रतचारी फलमूलाशन एव स्यात् । नीवाराद्यपि नाश्नीयात् । एतच्चोवं पण्मासेभ्योऽप्युपरि 'अनग्निरनिकेतनः' इति वसिष्ठवचनात्षण्मासोपर्यनग्नित्वम- निकेतत्वं च ॥ २५ ॥ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः। शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥ २६ ॥ अप्रयत्न इति ॥ सुखप्रयोजनेषु स्वादुफलभक्षणशीतातपपरिहारादिषु प्रयत्न- शून्योऽस्त्रीसंभोगी भूशायी च निवासस्थानेषु ममत्वरहितो वृक्षमूलवासी स्यात् ॥ २६ ॥ तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ २७ ॥ तापसेष्विति ॥ फलमूलासंभवे च वानप्रस्थेभ्यो ब्राह्मणेभ्यः प्राणमानधारणो- चितं भैक्षमाहरेत् । तदभावे चान्येभ्यो वनवासिन्यो गृहस्थेभ्यो द्विजेभ्यः॥२७॥