पाणिभ्यामिति ॥ अन्नस्येति तृतीयाथै षष्ठी। वर्धितं पूर्णं पिठरादिपान्नं स्वयं पाणिभ्यां गृहीत्वा पितॄंश्च चिन्तयन्नसवन्त्यगारादानीय ब्राह्मणानां समीपे परिचेषणार्थमत्वरया स्थापयेत् ॥ २२४ ॥
उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते । |
उभयोरिति ॥ अधिकरणसप्तमीयम् । उभयोः करयोर्मुक्तमस्थितं यदन्नं ब्राह्मणान्तिकमानीयते तदसुरा दुष्टबुद्धय आच्छिन्दन्ति तस्मान्नैकहस्तेनानीय परिवेष्टव्यम् ।। २२५ ॥
गुणांश्च सूपशाकाद्यान्पयो दधि घृतं मधु । |
गुणानिति ॥ गुणान्व्यञ्जनानि, अन्नापेक्षयाऽप्राधान्याद्गुणयुक्तान्या सूपशाकाद्यान्प्रयतः शुचिः समाहितः अनन्यमनाः सम्यक् यथा न विशीर्यन्ति तथा भूमावेव स्वपात्रस्थाने स्थापयेन्न दारुफलकादौ ॥ २२६ ॥
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । |
भक्ष्यमिति ॥ भक्ष्यं खरविशदमभ्यवहरणीयं मोदकादि, भोज्यं पायसादि, नानाप्रकारफलमूलानि, हृदयस्य प्रियाणि मांसानि, पानानि सुगन्धीनि भूमावेव विन्यसेदिति पूर्वेण संबन्धः ॥ २२७ ॥
उपनीय तु तत्सर्वं शनकैः सुसमाहितः। |
उपेति ॥ एतत्सर्वमन्नादिकं ब्राह्मणसमीपमानीय प्रयतः शुचिरनन्यमनाः क्रमेण परिवेषयेत् । इदं मधुरमिदमम्लमित्येवं माधुर्यादिगुणान्कथयन् ॥ २२८ ॥
नास्रमापातयेज्जातु न कुप्येन्नानृतं वदेत् । |
नास्रमिति ॥ रोदनक्रोधमृषाभाषणानि न कुर्यात् । पादेन चान्नं न स्पृशेत् । न चोत्क्षिप्योत्क्षिप्यान्नं पात्रे क्षिपेत् । पुरुषार्थतया प्रतिपिद्धयोरपि क्रोधानृतयोः श्राद्धाङ्गत्वज्ञापनार्थोऽयं निषेधः ॥ २२९ ॥
अस्रं गमयति प्रेतान्कोपोऽरीननृतं शुनः । |
अस्रमिति ॥ अश्रु क्रियमाणं प्रेतान्भूतवेषान्श्राद्धान्नानि प्रापयति न पितॄणामुपकारकं भवति, क्रोधः शत्रून्, मृषावादः कुक्कुरान् , पादस्पर्शोऽन्नस्य राक्षसान्, अवधूननं पापकारिणः । तस्मान्न रोदनादि कुर्यात् ॥ २३० ॥