यद्यद्रोचेत विप्रेभ्यस्तत्तद्द्यादमत्सरः। |
यदिति ॥ यद्यद्विप्राणामीप्सितमन्नव्यञ्जनादि तत्तदमत्सरो दद्यात् । परमात्मनिरूपणपराः कथाश्च कुर्यात् । यतः पितॄणामेतदपेक्षितम् ॥ २३ ॥
स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । |
स्वाध्यायमिति ॥ स्वाध्यायं वेदं, मानवादीनि धर्मशास्त्राणि, आख्यानानि सौपर्णमैत्रावरुणादीनि, इतिहासान्महाभारतादीन् , पुराणानि ब्रह्मपुराणादीनि, खिलानि श्रीसूक्तशिवसंकल्पादीनि श्राद्धे ब्राह्मणान्श्रावयेत् ॥ २३२ ॥
हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैः शनैः । |
हर्षयेदिति ॥ स्वयं हृष्टो भूत्वा प्रियवचनादिभिर्ब्राह्मणान्परितोषयेत् । अन्नं चात्वरया भोजयेत् । मिष्टान्नेन पायसादिभिः ‘पायसमिदं स्वादु, मोदकोऽयं हृद्यो गृह्यताम्' इत्यादि गुणाभिधानैः पुनर्ब्राह्मणान्प्रेरयेत् ॥ २३३ ॥
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् । |
व्रतेति ॥ ब्रह्मचारिणमपि दौहित्रं श्राद्धे प्रयत्नतो भोजयेत् । अपिशब्दादब्रह्मचारिणमपि । आनुकल्पिकमध्यपठितस्यापि ब्रह्मचारिणो यन्नवचनाच्छ्रेष्ठत्वं कथयति । नेपालकम्बलं चासने दद्यात् । दौहित्रमन्तरेणापि तिलांश्च श्राद्धभूमौ विकिरेत् ॥ २३४ ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । |
त्रीणीति ॥ पूर्वोक्तान्येव त्रीणि दौहित्रादीनि श्राद्धे पवित्राणीति ज्ञाप्यन्ते । त्रीणि च शौचादीनि प्रशंसन्ति ॥ २३५ ॥
अत्युष्णं सर्वमन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः । |
अत्युष्णमिति ॥ उष्णमेवात्युष्णं यस्योष्णस्यान्नादेर्भोजनमुचितं तदुष्णं दद्यान्न तु फलाद्यपि । अतएव शङ्ख:-'उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् । अन्यत्र फलमूलेभ्यः पानकेभ्यश्च पण्डितः ॥' संयतवाचश्व ब्राह्मणा अश्नीयुः । किमिदं स्वाद्वस्वादु वेति दात्रान्नादिगुणान् पृष्टा वक्राद्यभिनयेनापि न ब्रूयुः । वाग्यतस्यात्रैव विधानात् ॥ २३६ ॥
•मनु० ११