महाभारतम्-05-उद्योगपर्व-112

विकिस्रोतः तः
← उद्योगपर्व-111 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-112
वेदव्यासः
उद्योगपर्व-113 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

गरुडवेगमसहमानेन गालवेन गुरुदक्षिणानर्पणेनैव स्वप्राणविमोक्षणशङ्कया परिशोचनम् ।। 1 ।।
गरुडेन गालवंप्रति प्रागेवाभिमतानिवेदनेन अकौशलाभिलपनपूर्वकं ऋषभाचले विश्रम्य पुनर्निवर्तनकीर्तनम् ।। 2 ।।


गालव उवाच।

5-112-1x

गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज ।
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ।।

5-112-1a
5-112-1b

पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता ।
देवतानां हि सान्निध्यमत्र कीर्तितवानसि ।।

5-112-2a
5-112-2b

अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः।
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्।
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज।।

5-112-3a
5-112-3b
5-112-3c

नारद उवाच।

5-112-4x

तमाह विनतासूनुरारोहस्वेति वै द्विजम्।
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ।।

5-112-4a
5-112-4b

गालव उवाच।

5-112-5x

क्रममाणस्य ते रूपं दृश्यते पन्नगाशन।
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ।।

5-112-5a
5-112-5b

पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् ।
प्रस्थितानामिव समं पश्यामीह गतिं खग ।।

5-112-6a
5-112-6b

ससागरवनामुर्वी सशैलवनकाननाम् ।
आकर्षन्निव चाभासि पक्षवातेन खेचर ।।

5-112-7a
5-112-7b

समीननागनक्रं च खमिवारोप्यते जलम्।
वायुना चैव महता पक्षवातेन चानिशम् ।।

5-112-8a
5-112-8b

तुल्यरूपाननान्मत्स्यांस्तथा तिमितिमिङ्गिलान् ।
नागाश्वनरवक्रांश्च पश्याम्युन्मथितानिव ।।

5-112-9a
5-112-9b

महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते।
न श्रृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ।।

5-112-10a
5-112-10b

शनैः स तु भवात्यातु ब्रह्मवध्यामनुस्मरन् ।
न दृश्यते रविस्तात न दिशो न च खं खग ।।

5-112-11a
5-112-11b

तम एव तु पश्यामि शरीरं ते न लक्षये ।
मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ।।

5-112-12a
5-112-12b

शरीरं तु न पश्यामि तव चैवात्मनश्च ह।
पदेपदे तु पश्यामि शरीरादग्निमुत्थितम् ।।

5-112-13a
5-112-13b

स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः।
तन्नियच्छ महावेगं गमने विनतात्मज ।।

5-112-14a
5-112-14b

न मे प्रयोजनं किंचिद्गमने पन्नगाशन ।
संनिवर्त महाभाग न वेगं विषहामि ते ।।

5-112-15a
5-112-15b

गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् ।
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ।।

5-112-16a
5-112-16b

तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज।
ततोऽयं जीवितत्यागे दृष्टो मार्गोमयाऽऽत्मनः ।।

5-112-17a
5-112-17b

नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् ।
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ।।

5-112-18a
5-112-18b

नारद उवाच।

5-112-19x

एवं बहु च दीनं च ब्रुवाणं गालवं तदा।
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ।।

5-112-19a
5-112-19b

नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि ।
न चापि कृत्रिमः कालः कालो हि परमेश्वरः ।।

5-112-20a
5-112-20b

किमहं पूर्वमेवेह भवता नाभिचोदितः।
उपायोऽत्र महानस्ति येनैतदुपपद्यते ।।

5-112-21a
5-112-21b

तदेष ऋषभो नाम पर्वतः सागरान्तिके।
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ।।

5-112-22a
5-112-22b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि द्वादशाधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-112-12 मणी वेति इवार्थे वशब्दः ।। 5-112-14 निर्वाप्य मन्दीकृत्य ।। 5-112-15 संनिवर्त निवर्तस्व ।। 5-112-20 योत्मानं संधिरार्षः। कृत्रिमः स्वेच्छासंपाद्यः । कालो मृत्युः ।।

उद्योगपर्व-111 पुटाग्रे अल्लिखितम्। उद्योगपर्व-113