सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
प्रथमः सर्गः ।


साधूनां स्वपदसरोजषट्पदानां
धर्मस्य स्थितिमनघां विधातुकामः ।
यद्गर्भे जगदखिलं स एव गर्भो
देवक्याः समजनि देवदेववन्द्यः ॥ १०० ॥

साधूनामिति । अखिलम् । जगत् । यद्गर्भ यस्य कुक्षिस्थम् । 'कुक्षौ कुक्षिस्थिते जन्ती गर्भः' इति नानार्थे वैजयन्ती । देवानामपि देवा. ब्रह्मादयः तेषामपि वन्द्यः । स एव वासुदेवः । स्वस्य पदमेव सरोज पद्मं तस्य षटपदानां भ्रमराणां सरोजे भ्रमरवत् स्वचरणे आसक्तानाम् । साधूनाम् । धर्मस्य स्थितिं मर्यादाम् । अनघां निर्दोषाम् । विधातुकामः विधित्सुस्सन्। देवक्या गर्भः। समजनि सजातः । जनिधातो डि 'दीप. जन' इत्यादिना कर्तरि चिण् । विधातुकाम इत्यत्र विधातु कामो यस्येति बहुव्रीहिः । विधातु कामः कामनावानिति वा । मयूरव्यसकादित्वात् समासः । 'तु काममनसोरपि' इति मलोपः । देवकस्यापत्य दैवकी इति वृद्धिपाठस्साधुरित्यात्रेयः । अवृद्ध एव प्रसिद्धः । तथा यमकरत्नाकरेऽपि प्रयोगो दृश्यते । 'अखिलस्य योऽस्य जगतो यो निर्माता च देवकीयस्य । शर्मण इहावतारैर्योनिर्माता च देवकी यस्य ।' इति । संभवति चाणप्रत्य- यान्तत्वेऽप्यवृद्धत्व ज्योतिषवत् , सज्ञापूर्वकविधित्वेन वृद्धिशास्त्रस्यानित्य- त्वात् । स्वपदसरोजेत्यत्र परंपरितरूपकालङ्कारः । प्रहर्षणी- वृत्तमेतत् ॥ १० ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वकेटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये प्रथमः सर्गः॥