यादवाभ्युदये " इतीति । इतिशब्दः समातिवाची प्रथमः सर्ग इत्येतदन्वयी । कवयः काव्यकृतः, तर्केण दीव्यन्तीति तार्किकाः वादिनः 'तेन दिव्यति' इति ठक्प्रत्ययः, तेषां सिहस्य परिपन्थिभूतानां तेषां सिंहवद्भयकरस्य तेषु श्रेष्ठस्येति वा 'सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः।' इत्यमरः । सर्वेषु तन्त्रेषु सिद्धान्तेषु न्यायवैशेषिकपूर्वोत्तरमीमांसासाङथयोगशैववैष्ण- वादिषु स्वतन्त्रस्य स्वेच्छया कचिदर्थे स्थापयितुं दूषयितुं वा शकस्य । वे दान्ताचार्यस्य वेदान्तरहस्यार्थोपदेष्टुः । श्रीमद्वेकटनाथस्य। कृतिषु प्रबन्धेषु। 'यतश्च निर्धारणे' इति सप्तमी। तत्कृतप्रबन्धानां मद्धथ इत्यर्थः । यादवा- भ्युदये यादवस्य कृष्णस्य अभ्युदयं विषयीकृत्य कृते, 'अधिकृत्य कृते अन्ये' इति प्राप्तस्याणप्रत्ययस्य 'लुबाख्यायिकाभ्यो बहुलम्' इति लुप् । 'सगैरनतिविस्तीर्णैः श्राव्यवृत्तस्सुसधिभिः। सर्वत्र भिन्नसर्गान्तैरुपेतं लोक- रञ्जनम्।' इत्युक्तमहाकाव्यलक्षणयुक्ते प्रबन्धे । प्रथमः सर्गः । इति समाप्त इत्यर्थः ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीविश्वजिद्याजि- श्रीरङ्गराजाध्वरिवरसूनुना अप्पय्यदीक्षितेन विरचिते यादवाभ्युदयव्याख्याने प्रथमः सर्गः ॥ श्रीमते वेदान्तगुरवे नमः ।
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१००
दिखावट