सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 166 ) हमभिलाषपूरयितृकं प्रसाद दास्यामीति । यावन्नियोगभूमिं प्रथम एता भवामि, तावदनुपदं मम चरणालंकारहस्तया बकुलावलिकयागन्तव्यम्, परिदेवयिष्यामि तावाद्विस्रब्धं मुहूर्तकम् । ( इति परिक्रामति) विदूषकः-(दृष्ट्वा ।) वयस्य, एतत्खलु सीधुपानोद्वेजितस्य मत्स्यण्डिकोपनता। राजा-अयि, किमेतत् विदूषकः-एषा नातिपरिचारवेषोत्सुकवदनैकाकिनी मालविकाडदरे वर्तते । राजा--( सहर्षम् ) कथं मालविका । विदूषकः-अथ किम् । राजा—शक्यमिदानीं जीवितमवलम्बितुम् । त्वदुपलभ्य समीपगतां प्रियां हृदयमुच्छ्वासितं मम विक्लवम् । तरुवृतां पथिकस्य जलार्थिनः सरितमारसितादिव सारसात् ॥ ६ ॥ अथ क्व तत्रभवती। विदूषकः--एषा तरुराजिमव्यान्निष्क्रान्तेत एवाभिवर्तमाना दृश्यते। राजा-(विलोक्य सहर्षम् । ) वयस्य, पश्यामि । विपुलं नितम्बबिभ्बे मध्ये क्षामं समुन्नतं कुचयोः । अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥ ७ ॥ सखे, पूर्वस्मादतिमनोहरमवस्थान्तरमुपारूढा तत्रभवती । तथा हि ।