( 163 ) विदूषकः-प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या र सा ननु वो विस्मृता । परिव्राजिका-अहो प्रयोगाभ्यन्तरः प्रश्नः । (सर्वे प्रहसिताः ।) (मालविका स्मितं करोति।) राजा-( आत्मगतम् ) उपात्तसारश्चक्षुषा मे स्वविषयः । यदनेन स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् । असमग्रलक्ष्यकेसरमुच्छ्वसदिव पङ्कजं दृष्टम् ॥ १० ॥ गणदासः–महाब्राह्मण, न खलु प्रथमं नेपथ्यप्रदर्शनमिदम् । अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः । विदूषकः—मया नाम मुग्धचातकेनेव शुष्कवनगर्जितेऽन्तरिक्षे जलपानमिष्टम् । अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽ त्रभवत्या शोभनं भणितं ततोऽस्य इदं पारितोषिकं प्रयच्छामि । ( इति राज्ञो हस्तात्कटकमाकर्षति ।) देवी-तिष्ठ तावत् । गुणान्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि । विदूषकः----परकीयमिति कृत्वा । देवी-( आचार्यं विलोक्य) आर्य गणदास, दर्शितोपदेशा ते शिष्या । गणदासः- -वत्से, प्रतिष्ठस्वेदानीम् । (मालविका स्नेहाचार्येण निष्क्रान्ता।) विदूषकः--(जनान्तिकम् ) एतावान्मे मतिविभवो भवन्तं सेवितुम् । राजा-अलमलं परिच्छेदेन । अहं हि
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४०९
दिखावट