पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 162 ) देवी--ननु गौतमवचनमप्यार्यों हृदये करोति। गणदासः--देवि, मा मैवम् । देवप्रत्ययात्संभाव्यते सूक्ष्मदर्शितः गौतमस्य । मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव निकषणाविलं पयः॥ ७ ॥ (विदूषकं विलोक्य ! ) ततः श्रृणुमो वयं विवक्षितमार्यस्य । विदूषकः-(गणदासं विलोक्य ) कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि । गणदासः-भगवति, यथादृष्टमभिधीयताम् । गुणो वा दोषो वा ? परिव्राजिका-यथादृष्टं सर्वमनवद्यम् । कुतः । अगङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु । शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौं भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ 12 गणदासः--देवः कथं वा मन्यते । राजा—वयं स्वपक्षे शिथिलाभिमानाः संवृत्ताः । गणदास: -अद्य नर्तयितास्मि। उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः । श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ ९ ॥ देवी-दिष्टया परिक्षताराधनेनार्यों वर्धते । गणदासः-देवीपरिग्रह एव वृद्धिहेतुः । (विदूषकं विलोक्य ।) गौतम, वदेदानीं यत्ते मनसि वर्तते ।