( 149 ) तया वियुक्तस्य निमग्नमध्यया भविष्यसि त्वं यदि संगमाय मे । ततः करिष्यामि भवन्तमात्मनः शिखामणिं बालमिवेन्दुमीश्वरः ॥ ६५ ॥ ( परिक्रम्यावलोक्य च ) अथे, किं नु खलु कुसुमरहितामपि लताप्रियां पश्यता मया रतिरुपलभ्यते । अथवा स्थाने मम मनो रमते । इयं हि- तन्वी मेघजलार्द्रपल्लवतया धौताधेरवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा । चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥ 66।। यावदस्यां प्रियानुकारिण्यां लतायां परिष्वङ्गप्रणयीं भवामि । लते प्रेक्षस्व विना हृदयेन भ्रमामि यदि विधियोगेन पुनस्तां प्राप्स्यामि । तदारण्येन विना करोमि निर्भ्रान्ति पुनर्न प्रवेशयामि तां कृतान्ताम् ॥ ६७ ॥ (इति चर्चरिकयोपसृत्य लतामालिङ्गति । ततस्तदीयस्थानमाक्रम्यैव प्रविष्टोर्वशी । राजा-(निमीलिताक्षः स्पर्श नाटयित्वा । ) अये, उर्वशीगात्रस्पर्शादिव निर्वृतं मे हृदयम् । पुनरस्ति विश्वासः । कुतः ? समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा । अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः ॥ ६८ ॥ ( शैनरुन्मील्य चक्षुषी। ) कथं सत्यमेवोर्वशी । ( इति मूञ्छितः पता ) -विक्रमोर्वशीये चतुर्थोऽङ्कः ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३९५
दिखावट