( 133 ) हृतोष्ठरागैर्नयनोदबिन्दुभि- र्निमग्ननाभेर्निपतद्भिरङ्कितम् । च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥ १७ ॥ भवतु। आदास्ये तावत् । (परिक्रम्य विभाव्य च, सास्रम् ) कथं सेन्द्रगोपं नवशाद्वलमिदम् । तत्कुतोऽस्मिन्विपिने प्रियाप्रवृत्तिरवगमयितव्या ( विलोक्य ) अयमासारोच्छ्वसितशैलतटस्थलीपाषाणमाधिरूढः । आलोकयति पयोदान्प्रबलपुरोवातनर्तितशिखण्डः । केकागर्भेण शिखी दूरोन्नमितेन कण्ठेन ॥ १८ ॥ .( उपेत्य ) भवतु । यावदेनं पृच्छामि । ( अनन्तरे खण्डकः।) संप्राप्तखेदस्त्वरितं परवारणः । प्रियतमादर्शनलालसो गजवरो विम्मितमानसः ॥ १९ ॥ ( तेन खण्डकान्ते चर्चरी ।) बर्हिण परमित्यभ्यर्थये आचक्ष्व मम ताम् अत्रारण्ये भ्रमता यदि त्वया दृष्टा सा मम कान्ता । निशामय मृगाङ्कसदृशेन वदनेन हंसगतिः अनेन चिह्नेन ज्ञास्यस्याख्यातं तव मया ॥ २० ।। (चर्चरिकयोपविश्य, अञ्जलिं बध्वा।) नीलकण्ठ ममोत्कण्ठा वनेऽस्मिन्वनिता त्वया । दीर्घापाङ्गा सितापाङ्ग दृष्टा दृष्टिक्षमा भवेत् ॥ २१ ॥ ( चर्चरिया विलोक्य) कथमदत्त्वैव प्रतिवचनं नर्तितुं प्रवृत्तः । किं नु खलु हर्षकारणमस्य ? (विचिन्त्य) आं, ज्ञातम् ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३८४
दिखावट