पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. मृदुपवनविभिन्नो मत्प्रियाया विनाशा- द्धनरुचिरकलापो निःसपत्नोऽस्य जातः । रतिविगलितबन्धे केशहस्ते सुकेश्याः सति कुसुमसनाथे किं करोत्येष बर्हीं ।। २२ ॥ भवतु । परव्यसननिर्वृतं न पुनरेनं पृच्छामि । (द्विपदिकया दिशोऽव- लोक्य ) अये, इयमातपान्तसंधुक्षितमदा जम्बूविटपमध्यास्ते परभृता । विहगेषु पण्डितैषा जातिः । यावदेनां पृच्छामि । ( अनन्तरे खुरकः) विद्याधरकाननलीनो दुःखविनिर्गतबाष्पोत्पीडः । दूरोत्सारितहृदयानन्दः अम्बरमानेन भ्रमति गजेन्द्रः । परभृते मधुरप्रलापिनि कान्ते नन्दनवने स्वच्छन्दं भ्रमन्ती । यदि परं प्रियतमा सा मम दृष्टा तर्ह्याचक्ष्व मम परपुष्टे । एतदेव नर्तित्वा बलन्तिकयोपसृत्य जानुभ्यां स्थित्वा ) भवति, त्वां कामिनो मदनदूतिमुद्दाहरन्ति मानावभङ्गनिपुणं त्वममोघमस्त्रम् । तामानय प्रियतमां मम वा समीपं मां वा नयाशु कलभाषिणि यत्र कान्ता ॥ २५ ॥ (वामकेन किंचिद्वलित्वा । आकाशे । ) किमाह भवती ? कथं त्वामेवमनुरक्तं विहाय गतेति । श्रृणोतु भवती । कुपिता न तु कोपकारणं सकृदप्यात्मगतं स्मराम्यहम् । , प्रभुता रमणेषु योषितां नहि भावमवलितान्यपेक्षते ॥ २६ ॥