सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 107 ) राजा--अनुशास्तु मां भवान् । पुरोहितः--अत्रभवती तावदा प्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत्, त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति, अभिनन्ध शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यय तु पितुरस्याः समीप- नयनमवस्थितमेव । राजा--यथा गुरुभ्यो रोचते । पुरोहितः---वत्से, अनुगच्छ माम् । शकुन्तला--भगवति वसुधे, देहि में विवरम् । (इति रुदती प्रस्थिता । निष्क्राता सह पुरोधसा तपस्विभिश्च।) ( राजा शापव्यवाहतस्मृतिः शकुन्तलागतमेव चिन्तयति ।) -शाकुन्तले पञ्चमोऽङ्कः । . "This dialogue shows the picture of Society during the time of Kalidasa, thus evidencing his study of the depth of human nature. We see here how the poor suffer at the hands of the police when they have the misfortune of falling into their hands. ( ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धपुरुषमादाय रक्षिणौ च ।) रक्षिणौ-(ताडयित्वा ) अरे कुम्भीरक, कथय कुत्र त्वयैतन्म- णिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् । पुरुषः-(भीतिनाटितकेन ) प्रसीदन्तु भावमिश्राः । अहं नेदृश- कर्मकारी।