पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 108 ) प्रथम:-किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रति- ग्रहो दत्तः ? पुरुषः-शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः । द्वितीयः-पाटच्चर, किमस्माभिर्जातिः पृष्टा ? श्यालः-सूचक, कथयतु सर्वमनुक्रमेण । मेनमन्तरे प्रति- बध्नतिम् । उभौ-यदावुत्त आज्ञापयति । कथय । पुरुषः-अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि । . श्याल:-( विहस्य ) विशुद्ध इदानीमाजीवः । पुरुषः- सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ १ ॥ श्याल: -ततस्ततः । पुरुषः-एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत् । तस्योदराभ्यन्तर इदं रत्नभासुरमङ्गुलीयं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः । मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः। श्यालः-जानुक, विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः रक्षिणौ-तथा । गच्छ अरे गण्डभेदक । ( सर्वे परिक्रामन्ति ।) श्यालः-सूचक, इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्तुर्निवेद्य ततः शासनं प्रतीक्ष्य निष्क्रमामि 7