( 74 ) ( शकुन्तला---( ससंभ्रमम् ) अन्मो । सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते । (इति भ्रमरबाधां रूपयति ।) राजा-( सस्पृहन् ) चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमती् रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ २० ॥ शकुन्तला--न एष दुष्टो विरमति । अन्यतो गमिप्यामि । पदान्तरे स्थित्वा सदृष्टिक्षेपम् ) कथमितोऽप्यागच्छति ? हला, परित्रा- येयां मामनेन दुर्विनीतेन दुष्टमधुकरेण परिभूयमानाम् । उभ-( सस्मितम् ) के आवां परित्रातुम् । दुष्यन्तमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम । राजा-अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेत- व्यम्-( इत्यर्धोक्ते स्वगतम् ) राजभावस्त्वभिज्ञातो भवेत् । भवतु । एवं तावदभिधास्ये। शकुन्तला—( पदान्तरे स्थित्वा, सदृष्टिक्षेपम् ) कथमितोऽपि माम- नुसरति ? राजा--( सत्वरमुपसृत्य ) कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्विकन्याम् ॥ २१ ॥ ( सर्वा राजानं दृष्ट्वा किंचिदिव संभ्रान्ताः।) अनसूया--आर्य, न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता । ( इति शकुन्तलां दर्शयति । )
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३२०
दिखावट