सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 134 ) उर्वशी-(ससाध्वसमुपसृत्य सव्रीडम् ) जयतु जयतु महाराजः । राजा--( सहर्षम् ) सुन्दरि, मया नाम जितं यस्य त्वयायं समुदीर्यते । जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ १७ ॥ (हस्ते गृहीत्वा आसन उपवेशयति.) विदूषकः कीदृशी स्थितिर्भवदीये राज्ये? प्रियवयस्यो ब्राह्मणो न वन्द्यते ?. (उर्वशी सस्मितं प्रणमति ।) विदूषकः--स्वस्ति भवत्यै । देवदूतः--चित्रलेखे, त्वरयोर्वशीम् । मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो निबद्धः । ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ॥ १७ ॥ ( सर्व आकर्णयन्ति । उर्वशी विषादं रूपयति ।) चित्रलेखा-श्रुतं त्वया देवदूतस्य वचनम् ? तदनुजानीहि महाराजम् । उर्वशी-(निःश्वस्य ) नास्ति मे वाग्विभवः । चित्रलेखा--महाराज, उर्वशी विज्ञापयति-परवशोऽयं जनः । महाराजेनाभ्यनुज्ञाता इच्छामि देवदेवस्यानपराद्धमात्मानं कर्तुम् । राजा-(कथं कथमपि वचनं संस्थाप्य) नास्मि भवत्योरीश्वरनियो- काशी कि तु स्मर्तव्यस्त्वयं जनः । (उर्वशी वियागदुखं रूपयित्वा राजानं पश्यन्ती सह सख्या निष्क्राता।) -विक्रमोर्वशीये द्वितीयोऽङ्कः ।